This page has been fully proofread once and needs a second look.

९८
 
काव्यमाला ।
 
मुक्तकरेण स्थूललक्षेण च राज्ञा नृपेण संश्रितः । 'राजा मृगाङ्के क्षत्रिये नृपे' इति

मङ्गः खः। यस्य चैवंविधाः पुत्रादयः सदा दानसत्रनिरतास्तस्य स्वामिनः कनकवर्षवित-

रणे किमाश्चर्यमित्यर्थः ॥
 

 
निर्मत्सरौ निवसतः सममर्कचन्द्रौ

नीरानलावमृतहालहलौ च यत्र ।

राज्ञा नवेन तदधिष्ठितर्[^१]मुज्ज्वलेन
 

शार्वेवं वपुर्भवतु वाञ्छितसिद्धये वः ॥ १५ ॥
 

 

 
निर्मत्सराविति । तत् शार्वे शर्वसंबन्धि वपुर्वो गुयुष्माकं वाञ्छितसिद्धये अस्तु ।

किंभूतम् । नवेनाभिनवेन एककलात्वोपलक्षितेन राज्ञा चन्द्रमसा अधिष्ठितम् । अथ च

नेत्रन पूर्वस्माद्राज्ञोऽभिनवोत्थितेन राज्ञा नृपेण चाधिष्ठितम् । तत्किमित्याह - यत्र वपुषि

निर्मत्सरौ मत्सराद्द्वेषान्निष्क्रान्तौ अर्कचन्द्रौ समं संभूय निवसतः । अर्को हि दिवा-

करः । चन्द्रश्च निशाकरः । अतस्तयोर्मत्सरः । एवमग्रेऽपि । तथा नीरानलौ । नीरं

जटाजूटाश्रितं गङ्गाजलम् । अनलश्च नेत्राग्निः । तावपि यत्र निर्मत्सरौ समं वसतः ।

तथा अमृतहालहलौ सुधाक्ष्वेडौ च नीरोषौ समं वसतः । सुधा महेशस्य करस्थामृत-

कलशे । 'देवं. सुधाकलशशोभिकरम्' इत्युक्तेः । हालहल: कालकूटाख्यविषविशेषो गले

निगीर्णोऽपि शान्तगदः । 'हालाहलं हालहलं वदन्त्यपि हलाहलम्' इति कोषः । अत्र

शब्दश्लेषोक्त्या हेतुमाह - राज्ञेत्यादि । तच्च व्याख्यातम् । यत्र हि नवेन राज्ञा अधि-

नेत्रा अधिष्ठितं नवं राज्यं तत्रान्योन्यं जनस्य वैरा भवन्तीत्यर्थः ॥
 

 

 
वक्ता च यः सुखयिता च विभुः श्रुतीनां

वक्षः करं च वहते कमलाङ्कितं यः ।

यो मूर्ध्नि वर्ष्माणि च हैमवतीतीं बिभर्ति
 

त्रैधं भवन्भवतु वः स शिवः शिवाय ॥
 
१६ ॥
 

 
वक्ता चेति । त्रैधम् । 'द्वित्र्योश्च धमुञ्' स्वार्थे । त्रैधं त्रिभिः प्रकारैः सृष्ट्यादि-

कार्यार्थं ब्रह्मविष्णुरुद्ररूपेण क्रमेण संपद्यमानः स वः शिवाय भवतु । स क इत्याह – यो

विभुरीश्वरो ब्रह्मरूपेण श्रुतीनां वेदानां चतुर्णाणां वक्ता । तथा श्रुतीनां तदाकर्णननिष्ठ-

विद्वज्जनकर्णानां सुखवियिता सुखोत्पादकश्च । 'श्रुतिः श्रवसि वेदे च ' इति कोषः ।

तथा यो विभुर्विष्णुरूपेण कमलया लक्ष्म्या अङ्कितं चिह्नितं वृक्षो बिभर्ति । तथा क

मलेन पद्मेनाङ्कितं करं पाणि च वहते । तथा यो विभू रुद्ररूपेण हैमवतीम् । हिमवतो-

ऽपत्यं हैमवती गङ्गा । तदुत्पन्नत्वात्तस्याः । तां मूर्ध्नि बिभर्ति । तथा [वपुषि च] हैमवतीं

हिमाद्रितनयां गौरीं च वपुषि शरीरे । वामभाग इत्यर्थः । बिभर्ति ॥
 

 
[^
]. 'ईश्वरेण' इति क-पाठ: .
 
Digitized by Google