This page has been fully proofread once and needs a second look.

४१४
 
काव्यमाला ।
 
अम्भःकम्प्रं कटप्रं सबहलगरलं पन्नगं कण्ठलग्नं

ग्रञ्जथ्नन्मह्यम्नभस्त्खरकरदहनस्वर्क्षपत्यम्बरत्वम् ।

स्कन्धस्थं चर्म भर्मप्रभमलकचयं चन्दनत्वं प्रपन्नं
 

[^१]
प्रत्यङ्गं भस्म सप्तच्छददलधवलं स्यत्वजः कल्मषं वः ॥ ६ ॥

 
अजोऽनादिः श्रीशंभुर्वो युष्माकं कल्मषं पातकं स्यतु दूरीकरोतु । किं कुर्वन् । अ-

म्भसा स्वर्गङ्गाजलेन कम्प्रस्तं कटप्रं जटाजूटं कपर्दे प्रदं ग्रथ्नन् । तथा सह बलेन गरलेन

वर्तते यः स तादृशम् । कण्ठे गले लग्नं पन्नगं वासुकिं प्रश्ग्रथ्नन् । मही क्षितिः आपो जलं

च नभस्वान्वायुश्च खरकरः सूर्यश्च दहनोऽग्निः स्वमात्मा यजमानः ऋक्षपतिश्चन्द्रः अ-

म्बरं चेत्येतेषां भावः मत्यन्न ह्यम्नभस्वत्खरकरदहनस्वर्क्षपत्यम्बरत्वं प्रग्रथ्नन् तन्मूर्तितिं धारयन् ।

तथा स्कन्धयोरंसयोस्तिष्ठतीति तादृशं चर्म गजचर्म प्रग्रथ्नन् । तथा भर्म बिभर्ति पुष्णाति

प्रीतिमिति भर्मकनकम् । 'गाङ्गेयं भर्म कर्बुरम्' इत्यमरः । भर्मप्रभं कनकनिभमलकचयं

केशसमूहं प्रध्ग्रथ्नन् । यतोऽसौ विभुर्नीललोहितः । नीलः कण्ठे लोहितः केशेष्वित्यागमः ।

तथा चन्दनत्वं मलयजत्वं प्राप्तं सप्तच्छददलवद्धवलं भस्म विभूतिं प्रत्यङ्गं अनन् ॥
सै

 
[^२]स
द्यः संन्यस्तगर्वग्रहमहतमहस्त्यक्तसङ्गप्रसङ्गं
 

सत्त्वस्थं लब्धतत्त्वं मलशबलगलत्सर्वसंबन्धबन्धम् ।

यत्संपर्कप्रयत्नक्षममलयदयं तथ्यपथ्यप्रसक्तं
 

यच्छत्त्वच्छं मनस्तत्स्मरहरचरणद्वन्द्वनम्रस्य शं वः ॥ ७ ॥
 

 
स्मरहरः श्रीशंभुस्तस्य पादयुगले नम्रस्य भक्तिप्रह्वस्य धन्यस्य पुंसः अच्छं निर्मलं

तन्मनश्चित्तं वो युष्माकं शं कल्याणं यच्छतु ददातु । तन्मनः किम् । यत् श्रीशिवभक्तस्य

मनः सद्यस्तत्क्षणमेव श्रीशिवैकताध्यानावसर एव सम्यङ् न्यस्तो गर्वग्रहोऽहंकारहेवाको

येन तत् । तथा अहतमक्षतं महस्तेजो यस्य तत् । तथा त्यक्तः सङ्गस्य बाह्यजनसंयोगस्य

प्रसङ्गो येन तत् । तथा सत्त्वस्थमुद्रिक्तसत्त्वगुणस्थम् । तथा लब्धतत्त्वं प्राप्तपरमार्थम् ।

तथा मलेन पापेन शबल: पापमिश्रितः गलतू चलत् ....
 
........ ।
 

........ ।
श्रीशिवभक्तिरसास्वादे प्रयत्नस्तत्र क्षमम् । तथा अलयदयं निर्विनाशकृपम् (सेवकजनम् ) ।

तथा तथ्यं सत्यवचनमेव पथ्यं यस्य तत् ॥
 

 
सत्यं नश्यत्यवश्यं घनमघपटलं यत्पदस्पर्शबद्ध-

श्रद्धस्य स्पष्टकष्टप्रशमनमनसः कस्य न व्यक्तकल्कम् ।

तस्य व्यस्यत्वशं वः सितंत[^३]करशरणं मस्तकं ध्वस्तकम्पं

संपत्संपर्करम्यप्रभमभयकरस्यर्षभस्यन्दनस्य ॥ ८ ॥
 

 
[^
]. 'प्रत्यमंग्रं' क- ख.
[^
]. क- पुस्तकेऽयं श्लोकस्बुरुटितः
[^
]. 'शतकर' ख.
 
Digitized by Google