This page has not been fully proofread.

४१४
 
काव्यमाला ।
 
अम्भःकम्प्रं कटप्रं सबहलगरलं पन्नगं कण्ठलग्नं
ग्रञ्जन्मह्यम्नभस्खत्खरकरदहनस्वर्क्षपत्यम्बरत्वम् ।
स्कन्धस्थं चर्म भर्मप्रभमलकचयं चन्दनत्वं प्रपन्नं
 
प्रत्यङ्गं भस्म सप्तच्छददलधवलं स्यत्वजः कल्मषं वः ॥ ६ ॥
अजोऽनादिः श्रीशंभुर्वो युष्माकं कल्मषं पातकं स्यतु दूरीकरोतु । किं कुर्वन् । अ-
म्भसा स्वर्गङ्गाजलेन कम्प्रस्तं कटप्रं जटाजूटं कपर्दे प्रनन् । तथा सह बलेन गरलेन
वर्तते यः स तादृशम् । कण्ठे गले लग्नं पन्नगं वासुकिं प्रश्नन् । मही क्षितिः आपो जलं
च नभस्वान्वायुश्च खरकरः सूर्यश्च दहनोऽग्निः स्वमात्मा यजमानः ऋक्षपतिश्चन्द्रः अ-
म्बरं चेत्येतेषां भावः मत्यन्न भस्वत्खरकरदहनस्वर्क्षपत्यम्बरत्वं प्रनन् तन्मूर्ति धारयन् ।
तथा स्कन्धयोरंसयोस्तिष्ठतीति तादृशं चर्म गजचर्म प्रनन् । तथा भर्म बिभर्ति पुष्णाति
प्रीतिमिति भर्मकनकम् । 'गाङ्गेयं भर्म कर्बुरम्' इत्यमरः । भर्मप्रभं कनकनिभमलकचयं
केशसमूहं प्रध्नन् । यतोऽसौ विभुर्नीललोहितः । नीलः कण्ठे लोहितः केशेष्वित्यागमः ।
तथा चन्दनत्वं मलयजत्वं प्राप्तं सप्तच्छददलवद्धवलं भस्म विभूतिं प्रत्यङ्गं अनन् ॥
सैद्यः संन्यस्तगर्वग्रहमहतमहस्त्यक्तसङ्गप्रसङ्गं
 
सत्त्वस्थं लब्धतत्त्वं मलशबलगलत्सर्वसंबन्धबन्धम् ।
यत्संपर्कप्रयत्नक्षममलयदयं तथ्यपथ्यप्रसक्तं
 
यच्छत्त्वच्छं मनस्तत्स्मरहरचरणद्वन्द्वनम्रस्य शं वः ॥ ७ ॥
 
स्मरहरः श्रीशंभुस्तस्य पादयुगले नम्रस्य भक्तिप्रहस्य धन्यस्य पुंसः अच्छं निर्मलं
तन्मनश्चित्तं वो युष्माकं शं कल्याणं यच्छतु ददातु । तन्मनः किम् । यत् श्रीशिवभक्तस्य
मनः सयस्तत्क्षणमेव श्रीशिवैकताध्यानावसर एव सम्यङ् न्यस्तो गर्वग्रहोऽहंकारहेवाको
येन तत् । तथा अहतमक्षतं महस्तेजो यस्य तत् । तथा त्यक्तः सङ्गस्य बाह्यजनसंयोगस्य
प्रसङ्गो येन तत् । तथा सत्त्वस्थमुद्रिक्तसत्त्वगुणस्थम् । तथा लब्धतत्त्वं प्राप्तपरमार्थम् ।
तथा मलेन पापेन शबल: पापमिश्रितः गलतू चलत् ....
 
........ ।
 
श्रीशिवभक्तिरसास्वादे प्रयत्नस्तत्र क्षमम् । तथा अलयदयं निर्विनाशकृपम् (सेवकजनम् ) ।
तथा तथ्यं सत्यवचनमेव पथ्यं यस्य तत् ॥
 
सत्यं नश्यत्यवश्यं घनमघपटलं यत्पदस्पर्शबद्ध-
श्रद्धस्य स्पष्टकष्टप्रशमनमनसः कस्य न व्यक्तकल्कम् ।
तस्य व्यस्यत्वशं वः सितंकरशरणं मस्तकं ध्वस्तकम्पं
संपत्संपर्करम्यप्रभमभयकरस्यर्षभस्यन्दनस्य ॥ ८ ॥
 
१. 'प्रत्यमं' क- ख. २ क पुस्तकेऽयं श्लोकस्बुटितः ३. 'शतकर' ख.
 
Digitized by Google