This page has been fully proofread once and needs a second look.

३४ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
४१३
 
दधत् । तथा अधमानां
 
पामराणामग्धकासुरत्रिपुरप्रभृतीनां
 

ध्वंसस्तेन लक्ष्या प्रशंसा स्तु-

तिर्यस्य सः । तथा संसर्गेण निजचरणारविन्दरजःस्पर्शेन ध्वस्तं पङ्कं त्रिविधं पातकं येन स

तादृशः । तथा गणानां नन्दिमहाकालप्रभृतीनां गणः समूहस्तमचलं निर्विनाशं कल्पयन् ॥

 
वक्षःसद्मस्थपद्मं करकमलतलप्रज्वलच्छङ्खचक्रं
 

कंसघ्नं सर्पतल्पं खगवरवहनं नन्दयत्यर्धगं यः ।

धं
र्म बध्नन्ध्वजस्थं करगतकलशं वर्ष्म यच्च व्रतस्थं
 

शंसन्तं संस्मरन्तं नतमनवरतं सोऽव्ययः स्यत्वैघं [^१] वः ॥ ४ ॥
 

 
अविद्यमानो व्ययो नाशो यस्य स तादृशः श्रीशंभुर्वीवो युष्माकमधंघं त्रिविधं पापं स्यतु

दूरीकरोतु । 'षोऽन्तकर्मणि' धातुः । स क इत्याह - वक्षःसद्मोत्यादि । वृक्ष एव सद्म

निवासस्तत्र तिष्ठतीति तादृशी पद्मा लक्ष्मीर्यस्य स तादृशम् । तथा करौ पाणी एव

कमले तयोस्तले प्रज्वलन्ती प्रोद्भासमाने शङ्खः पाश्ञ्चजन्यश्चक्रं सुदर्शनश्च यस्य स तादृ-

शम् । तथा कंसघ्नं कंसरिपुम् । सर्पतल्पं शेषशायिनम् । खगवरवहनं गरुडवाहनं विष्णुं

अर्धगमर्धे दक्षिणार्धे गच्छतीति तादृशस्तं यो नन्दयति प्रमोदयति । हरिहररूपधारीत्यर्थः ।

तथा यः श्रीशंभुर्वामार्धे ध्वजस्थं ध्वजाग्रस्थं धर्मेमं वृषं बध्नन् । तथा करगतकलशं पाणि-

स्थामृतकलशं च वर्ष्म शरीरं बध्नन् । तथा शंसन्तं स्तुवन्तं संस्मरन्तं श्रीशिवस्मरणरतं

व्रतस्थं भक्तिप्रह्वजनं चानवरतमनिशं नन्दयति ॥
 

 
संरक्षन्मक्तवर्गेगं यमभटभयतः सम्यमम्यर्णलभ्यं
 

धन्यंमन्यं वदन्यं प्रणयपरवशं पर्षदेत्द[^२]ग्र्यव्यवस्थम् ।

वर्षत्वच्छिन्नचञ्चद्गरगवलगलः कस्थरङ्गत्तरङ्ग-

स्वर्गङ्गः शश्वदङ्कस्थलगतनगजरूयम्बकः संपदं वः ॥ ९ ॥
 

 
स त्र्यम्बकः श्रीशंभुर्वो युष्माकं संपदं वर्षतु । किंभूतः । अच्छिन्नमविरतं चञ्चत् उच्छ-

लन्यो गरः कालकूटाख्यो विषविशेषस्तेन गवलो महिषश्रृङ्गसदृशः । 'शबल' इति पाठः ।

शबल: कर्वुरो गलो यस्य स तादृशः । तथा शश्वदनिशं अङ्कस्थलगता अर्धनारीश्वररूप-

धारित्वेन नगजा पार्वती यस्य स तादृशः । किं कुर्वन् । यमभटभयतोऽन्तककिंकरत्रा-

साद्भक्तवर्गेगं संरक्षन् सम्यक् पालयन् । किंभूतं तम् । सभ्यम् सभासु साधुः सभ्यस्तम् ।

तथा अभ्यर्णे समीपे लभ्यः सेवायां संनिहितस्तादृशम् । तथा धन्यंमन्यं धन्यमात्मानं

मन्यते तादृशस्तम् । तथा वदन्यं दातारम् । तथा प्रणये निजप्रभुं प्रति कर्तव्ये परवश-

स्तादृशम् । तथा पर्षदि सभायामग्र्या उत्कृष्टा व्यवस्था यस्य तम् । पुनः किंभूतस्त्र्यम्बकः ।

के शिरसि तिष्ठतीति कस्था रङ्गत्तरङ्गा चलद्वीचिः स्वर्गङ्गा यस्य स कस्थरङ्गत्तरङ्गस्वर्गङ्गः ॥
 

 
[^
]. 'अशं' क.
[^
]. 'अर्घ्य' ख.
 
Digitized by Google