This page has not been fully proofread.

३४ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
४१३
 
दधत् । तथा अधमानां
 
पामराणामग्धकासुरत्रिपुरप्रभृतीनां
 
ध्वंसस्तेन लक्ष्या प्रशंसा स्तु-
तिर्यस्य सः । तथा संसर्गेण निजचरणारविन्दरजःस्पर्शेन ध्वस्तं पङ्कं त्रिविधं पातकं येन स
तादृशः । तथा गणानां नन्दिमहाकालप्रभृतीनां गणः समूहस्तमचलं निर्विनाशं कल्पयन् ॥
वक्षःसद्मस्थपद्मं करकमलतलप्रज्वलच्छङ्खचक्रं
 
कंसनं सर्पतल्पं खगवरवहनं नन्दयत्यर्धगं यः ।
धर्म बन्ध्वजस्थं करगतकलशं वर्ष्म यच्च व्रतस्थं
 
शंसन्तं संस्मरन्तं नतमनवरतं सोऽव्ययः स्यत्वैघं वः ॥ ४ ॥
 
अविद्यमानो व्ययो नाशो यस्य स तादृशः श्रीशंभुर्वी युष्माकमधं त्रिविधं पापं स्यतु
दूरीकरोतु । 'षोऽन्तकर्मणि' धातुः । स क इत्याह - वक्षःसत्यादि । वृक्ष एव सद्म
निवासस्तत्र तिष्ठतीति तादृशी पद्मा लक्ष्मीर्यस्य स तादृशम् । तथा करौ पाणी एव
कमले तयोस्तले प्रज्वलन्ती प्रोद्भासमाने शङ्खः पाश्चजन्यश्चक्रं सुदर्शनश्च यस्य स तादृ-
शम् । तथा कंसघ्नं कंसरिपुम् । सर्पतल्पं शेषशायिनम् । खगवरवहनं गरुडवाहनं विष्णुं
अर्धगमधे दक्षिणार्धे गच्छतीति तादृशस्तं यो नन्दयति प्रमोदयति । हरिहररूपधारीत्यर्थः ।
तथा यः श्रीशंभुर्वामार्धे ध्वजस्थं ध्वजाग्रस्थं धर्मे वृषं बनन् । तथा करगतकलशं पाणि-
स्थामृतकलशं च वर्ष्म शरीरं बनन् । तथा शंसन्तं स्तुवन्तं संस्मरन्तं श्रीशिवस्मरणरतं
व्रतस्थं भक्तिप्रजनं चानवरतमनिशं नन्दयति ॥
 
संरक्षन्मक्तवर्गे यमभटभयतः सम्यमम्यर्णलभ्यं
 
धन्यंमन्यं वदन्यं प्रणयपरवशं पर्षदेत्र्यव्यवस्थम् ।
वर्षत्वच्छिन्नचञ्चद्गरगवलगलः कस्थरङ्गत्तरङ्ग-
स्वर्गङ्गः शश्वदङ्कस्थलगतनगजरूयम्बकः संपदं वः ॥ ९ ॥
 
स त्र्यम्बकः श्रीशंभुर्वो युष्माकं संपदं वर्षतु । किंभूतः । अच्छिन्नमविरतं चञ्चत् उच्छ-
लन्यो गरः कालकूटाख्यो विषविशेषस्तेन गवलो महिषटङ्गसदृशः । 'शबल' इति पाठः ।
शबल: कर्वुरो गलो यस्य स तादृशः । तथा शश्वदनिशं अङ्कस्थलगता अर्धनारीश्वररूप-
धारित्वेन नगजा पार्वती यस्य स तादृशः । किं कुर्वन् । यमभटभयतोऽन्तककिंकरत्रा-
साद्भक्तवर्गे संरक्षन् सम्यक् पालयन् । किंभूतं तम् । सभ्यम् सभासु साधुः सभ्यस्तम् ।
तथा अभ्यर्णे समीपे लभ्यः सेवायां संनिहितस्तादृशम् । तथा धन्यंमन्यं धन्यमात्मानं
मन्यते तादृशस्तम् । तथा वदन्यं दातारम् । तथा प्रणये निजप्रभुं प्रति कर्तव्ये परवश-
स्तादृशम् । तथा पर्षदि सभायामग्र्या उत्कृष्टा व्यवस्था यस्य तम् । पुनः किंभूतस्र्यम्बकः ।
के शिरसि तिष्ठतीति कस्था रङ्गत्तरङ्गा चलद्वीचिः स्वर्गङ्गा यस्य स कस्थरङ्गत्तरङ्गस्वर्गङ्गः ॥
 
१. 'अशं' क. २. 'अर्घ्य' ख.
 
Digitized by Google