This page has been fully proofread once and needs a second look.

काव्यमाला ।
 
शर्वस्तर्षप्रकर्षश्रमशमनमनस्तर्पणस्वर्णवर्ष-

स्वस्थं तन्वन्सहर्षेषं जनमनघमघः कल्पयत्वक्षयं वः ॥ १॥
सर्प

 
सर्पन्नु
ल्लसन्यः कंदर्पः कामस्तस्य दर्पो गर्व एव ज्वरभरस्तस्य हरणे व्यग्रो वर्चः प्रपञ्च-

स्तेजोडम्बरो येषां ते तादृशाः प्रत्यप्ग्रा नवाः सूर्यचन्द्रज्वलदग्नयस्तैर्वलन्ति पक्ष्मलानि

त्रीणि नयनानि यस्य तथाभूतं वक्त्रं मुखं यस्य । तथा तर्षस्य स्पृहायाः प्रकर्षस्तेन श्रम-

स्तस्य शमनं यन्मनस्तर्पणस्वर्णवर्षेषं परमानन्दस्वरूपं तेन स्वस्थं सहर्षं जनं भक्तिप्रह्वलोकं

तन्वन्विस्तारयन् । अनघमघ: अनघो मघो महिमा सौख्यं च यस्य स शर्वः श्रीशंभुर्वो

युष्मभ्यमक्षयमविनाशं स्थैर्ये कल्पयतु करोतु ॥
 
यद्वद्वन्धं

 
यद्वद्वन्द्यं
प्रसन्नं लसदसमरसस्पन्दसंदर्भगर्
 
भं
मङ्गल्यं नर्मनद्धं तव वचनमदः शस्यमस्यत्कलङ्कम् ।

[^१]
तद्वद्भर्गस्य वर्यं शशधरशकलं द्यत्ववधं कपर्द-

न्यस्तं वक्रं प्रशस्तं प्रवलतमतमः खण्डनं मण्डनं वः ॥ २ ॥

 
प्रसन्नं प्रसादमधुरम् । लसन् योऽसमोऽनन्यसामान्यो रसोऽमृतरसस्तस्य संदर्भोंभो गर्भे

यस्य तत् तादृशम् । मङ्गल्यं मङ्गले साधु । तथा नर्मणा खेलया बद्धम् । तथा शस्यं स्तु-

त्यम् । कलङ्कं त्रिविधं मलमस्यद्दूरीकुर्वत् । भर्गस्य श्रीशंभोरदो वचनं दीनाभयवचनं य-
द्वद्वन्

द्वद्वन्द्
यं भवति तद्वद्वर्येयं प्रशस्यं मण्डनं भूषणं कपर्दे जटाजूटे न्यस्तं वक्रं कुटिलमेककला-

रूपत्वात् । तथा प्रशस्तं शोभनम् । तथा प्रवलतमतमः खण्डनं भर्गस्य श्रीशंभोः शश-

धरशकलं चन्द्रशकलं वोऽवद्यं पातकं द्यतु खण्डयतु ।
 

 
षट्चक्रस्थः षडध्वप्रसरसरभसः सर्गबे[^१]बन्धप्रगल्भः
 
प्रत्यप्

प्रत्यग्
रप्रह्वनव्यस्तवपठनपरब्रह्मसच्चक्रशक्रः ।

दक्षक्रत्वन्तकत्वं दधदधममदध्वंसलक्ष्यप्रशंसः
 

संसर्गध्वस्तपङ्को गणगणमचलं कल्पयन्हन्त्वैशं[^३] वः ॥ ३ ॥

 
प्रक्रान्तत्वाद्भर्ग इत्यध्याहारः । एवंभूतो भर्ग: श्रीशंभुर्वीवो युष्माकमशमकल्याणं भवा-

मयोत्थं हन्तु खण्डयतु । किंभूतः । षट्सु शरीरान्तर्वर्तिषु चक्रेषु नाभिहृत्कष्ठतालुमूल-

भ्रूमध्यब्रह्मरन्ध्रेषु तिष्ठति तादृशः । तथा षट् च तेऽध्वानो वर्णमन्त्रपदकलातत्त्वभुव-

नात्मान आगमशास्त्रप्रसिद्धाः । तत्र वर्णमन्त्रपदात्मका अध्वानो वाचकरूपाः कलातत्त्व-

भुवनात्मका वाच्यरूपास्तेषु षडध्वसु प्रसरः संचारस्तत्र सरभस औत्सुक्यवान् । तथा स

र्गबन्धे सृष्टिरचनायां प्रगल्भः । तथा अनंग्रं पुरोभागं प्रति प्रत्यग्रं प्रह्लाःवाः प्रणतिपरा नव्य-

स्तवपठने परा लीना ब्रह्मा द्रुहिणः, सत् उल्लसत् चक्रं सुदर्शनाख्यं यस्य स सच्चक्रो

विष्णु:, शक्र इन्द्रश्च यस्य । तथा दक्षस्य दक्षप्रजापतेः क्रतोर्यज्ञमृगस्यान्तकत्वं ध्वंसकत्वं

 
[^
]. 'तद्वः' क.
[^
]. 'भङ्ग' ख.
[^३]
'अघं' ख.
 
Digitized by Google