This page has not been fully proofread.

काव्यमाला ।
 
शर्वस्तर्षप्रकर्षश्रमशमनमनस्तर्पणस्वर्णवर्ष-
स्वस्थं तन्वन्सहर्षे जनमनघमघः कल्पयत्वक्षयं वः ॥ १॥
सर्पल्लसन्यः कंदर्पः कामस्तस्य दर्पो गर्व एव ज्वरभरस्तस्य हरणे व्यग्रो वर्चः प्रपञ्च-
स्तेजोडम्बरो येषां ते तादृशाः प्रत्यप्रा नवाः सूर्यचन्द्रज्वलदमयस्तैर्वलन्ति पक्ष्मलानि
त्रीणि नयनानि यस्य तथाभूतं वक्रं मुखं यस्य । तथा तर्षस्य स्पृहायाः प्रकर्षस्तेन श्रम-
स्तस्य शमनं यन्मनस्तर्पणस्वर्णवर्षे परमानन्दस्वरूपं तेन स्वस्थं सहर्ष जनं भक्तिप्रलोकं
तन्वन्विस्तारयन् । अनघमघ: अनघो मघो महिमा सौख्यं च यस्य स शर्वः श्रीशंभुर्वो
युष्मभ्यमक्षयमविनाशं स्थैर्ये कल्पयतु करोतु ॥
 
यद्वद्वन्धं प्रसन्नं लसदसमरसस्पन्दसंदर्भगर्भ
 
मङ्गल्यं नर्मनद्धं तव वचनमदः शस्यमस्यत्कलङ्कम् ।
तद्वद्भर्गस्य वर्य शशधरशकलं द्यत्ववधं कपर्द-
न्यस्तं वक्रं प्रशस्तं प्रवलतमतमः खण्डनं मण्डनं वः ॥ २ ॥
प्रसन्नं प्रसादमधुरम् । लसन् योऽसमोऽनन्यसामान्यो रसोऽमृतरसस्तस्य संदर्भों गर्भे
यस्य तत् तादृशम् । मङ्गल्यं मङ्गले साधु । तथा नर्मणा खेलया बद्धम् । तथा शस्यं स्तु-
त्यम् । कलङ्कं त्रिविधं मलमस्यद्दूरीकुर्वत् । भर्गस्य श्रीशंभोरदो वचनं दीनाभयवचनं य-
द्वद्वन्यं भवति तद्वद्वर्ये प्रशस्यं मण्डनं भूषणं कपर्दे जटाजूटे न्यस्तं वक्रं कुटिलमेककला-
रूपत्वात् । तथा प्रशस्तं शोभनम् । तथा प्रवलतमतमः खण्डनं भर्गस्य श्रीशंभोः शश-
धरशकलं चन्द्रशकलं वोऽवद्यं पातकं द्यतु खण्डयतु ।
 
षट्चक्रस्थः षडध्वप्रसरसरभसः सर्गबेन्धप्रगल्भः
 
प्रत्यप्रप्रह्वनव्यस्तवपठनपरब्रह्मसच्चक्रशक्रः ।
दक्षकत्वन्तकत्वं दधदधममदध्वंसलक्ष्यप्रशंसः
 
संसर्गध्वस्तपको गणगणमचलं कल्पयन्हन्त्वैशं वः ॥ ३ ॥
प्रक्रान्तत्वाद्भर्ग इत्यध्याहारः । एवंभूतो भर्ग: श्रीशंभुर्वी युष्माकमशमकल्याणं भवा-
मयोत्थं हन्तु खण्डयतु । किंभूतः । षट्सु शरीरान्तर्वर्तिषु चक्रेषु नाभिहृत्कष्ठतालुमूल-
भ्रूमध्यब्रह्मरन्ध्रेषु तिष्ठति तादृशः । तथा षट् च तेऽध्वानो वर्णमन्त्रपदकलातत्त्वभुव-
नात्मान आगमशास्त्रप्रसिद्धाः । तत्र वर्णमन्त्रपदात्मका अध्वानो वाचकरूपाः कलातत्त्व-
भुवनात्मका वाच्यरूपास्तेषु षडध्वसु प्रसरः संचारस्तत्र सरभस औत्सुक्यवान् । तथा स
र्गबन्धे सृष्टिरचनायां प्रगल्भः । तथा अनं पुरोभागं प्रति प्रत्यग्रं प्रह्लाः प्रणतिपरा नव्य-
स्तवपठने परा लीना ब्रह्मा द्रुहिणः, सत् उल्लसत् चक्रं सुदर्शनाख्यं यस्य स सच्चक्रो
विष्णु:, शक्र इन्द्रश्च यस्य । तथा दक्षस्य दक्षप्रजापतेः क्रतोर्यज्ञमृगस्यान्तकत्वं ध्वंसकत्वं
१. 'तद्वः' क. २. भङ्ग' ख. 'अघं' ख.
 
Digitized by Google