This page has been fully proofread once and needs a second look.

३४ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
४११
 
हे विश्वमूर्ते भव परमेश, त्वं विभुस्तत्परं परात्परतरं ब्रह्म बृंहणाद्ब्रह्म भवसि । किंभू-

तम् । भिन्नेष्वपि पृथग्भूतेष्वपि प्राणिषु सचराचरेष्वभिन्नम् । एकरूपमेवेत्यर्थः । दिक् च

देशश्चाकारश्च कालञ्च तैरकलितविभवमज्ञातैश्वर्यम् । सर्वव्यापकत्वेन दिग्देशाद्यपरिच्छि-

न्नमित्यर्थः । तथाभूतानां चतुर्दशविधानां ग्राम: समूहस्तस्य यत्परं ब्रह्म महद्वीजभूतं

कारणभूतं भवति । यथा बीजादतिसूक्ष्मादपि महतो वृक्षादेरुद्भवस्तथा यस्माच्चतुर्दशवि-

धभूतसर्ग इत्यर्थः । तथा चोक्तं सांख्यसंप्रदाये – 'अष्टविकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भ

वति । मानुष्यश्चैकविधः समासतो भौतिकः सर्गः ॥' तथा त्रिभुवनविषयं समस्तं वस्तु-

जातं यस्य परब्रह्मणो विवर्तः परिणामो वा । हेम्नि सुवर्ण इव नानाभरणानां कङ्कणनूपुरा

दीनां परिकरः सामग्रीरूपो यथा हेम्नि सुवर्णे लीयते तथान्ते कल्पान्ते विश्वं यत्र परब्रह्मणि

लीयत इत्यर्थः ॥
 
-
 

 
अथात एतस्य स्तोत्रस्योपसंहार श्लोकमेकमाह -

इत्थं मत्सूक्तयस्ते शशधरशिखर स्फारसारस्वतौघ-

प्रोन्मीलद्वक्त्रशुक्तिस्खलदमलमिलन्मौक्तिकव्यक्तिभाजः

तीव्रापत्तापताम्यत्सहृदयहृदयक्कालान्तिशान्तिप्रगल्भा
 

 

दर्भाग्रस्पर्धिबुद्धिग्रथितदृढगुणाः कर्णपूरीभवन्तु ॥ ४५ ॥
 

 
हे विभो शशधरशिखर चन्द्रमौले, इत्थं पूर्वोक्तेन प्रकारेण मत्सूक्तयस्ते तव विभोः

कर्णपूरीभवन्तु कर्णावतंसाः संपद्यन्ताम् । किंभूतास्ताः । स्फार उल्लसन्यः सारस्वतौघो

वाणीसंबन्धी रसप्रवाह एव सरस्वतीनदीसंबन्धी प्रवाहस्तेन प्रोन्मीलत्प्रकर्षेण विलसद्य-

द्वक्त्रं मुखं सैव शुक्तिस्तस्याः स्खलन्त्यमलानि मिलन्ति यानि मौक्तिकानि वचनरूपाणि

तेषां व्यक्तिं प्रकटीभावं भजन्ति तादृश्यः । तथा किंभूताः । तीव्रा कठिना या आपद्भ-

वामयदुःखं तेन यस्तापः संतापस्तेन ताम्यन्तो ये सहृदयास्तेषां हृदयक्लान्तेः शान्तौ

प्रगल्भाः । पुनः कीदृश्यः । दर्भाग्रस्पर्धिनी अतिसूक्ष्मा या बुद्धिस्तया प्ग्रथिता दृढा गुणा

माधुर्यौजःप्रसादाख्यास्त्रयो यासां ताः । मुक्ता अपि शुक्तिभवास्तापहारिण्यो गुणैस्तन्तुभि
बं

र्ब
द्धाश्च भवन्तीति शिवम् ॥
 

 
इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपश्ञ्चिकया समेतं काश्मीरक-

महाकविश्रीजगद्धरभद्वट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्ज लौ

कर्णपूरस्तोत्रं त्रयस्त्रिंशम् ।
 

 
चतुस्त्रिंशं स्तोत्रम् ।

 
अथातो ग्रन्थकृच्चतुस्त्रिंशमभ्ग्र्यवर्णस्तोत्रमारभमाण आह-

 
सर्पत्कंदर्पदर्पज्वरभरहरणव्यग्रवर्चः प्रपञ्च -

[^१]
प्रत्यग्रब्रध्नचन्द्रज्वलदनलवलत्पक्ष्मलञ्त्र्यक्षवक्त्रः ।
 

 
[^
]. 'प्रत्यक्ष' ख.
 
Digitized by Google