This page has not been fully proofread.

३४ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
४११
 
हे विश्वमूर्ते भव परमेश, त्वं विभुस्तत्परं परात्परतरं ब्रह्म बृंहणाद्ब्रह्म भवसि । किंभू-
तम् । भिन्नेष्वपि पृथग्भूतेष्वपि प्राणिषु सचराचरेष्वभिन्नम् । एकरूपमेवेत्यर्थः । दिक् च
देशश्चाकारश्च कालञ्च तैरकलितविभवमज्ञातैश्वर्यम् । सर्वव्यापकत्वेन दिग्देशाद्यपरिच्छि-
न्नमित्यर्थः । तथाभूतानां चतुर्दशविधानां ग्राम: समूहस्तस्य यत्परं ब्रह्म महद्वीजभूतं
कारणभूतं भवति । यथा बीजादतिसूक्ष्मादपि महतो वृक्षादेरुद्भवस्तथा यस्माच्चतुर्दशवि-
धभूतसर्ग इत्यर्थः । तथा चोक्तं सांख्यसंप्रदाये – 'अष्टविकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भ
वति । मानुष्यश्चैकविधः समासतो भौतिकः सर्गः ॥' तथा त्रिभुवनविषयं समस्तं वस्तु-
जातं यस्य परब्रह्मणो विवर्तः परिणामो वा । हेनि सुवर्ण इव नानाभरणानां कङ्कणनूपुरा
दीनां परिकरः सामग्रीरूपो यथा हेनि सुवर्णे लीयते तथान्ते कल्पान्ते विश्वं यत्र परब्रह्मणि
लीयत इत्यर्थः ॥
 
-
 
अथात एतस्य स्तोत्रस्योपसंहार श्लोकमेकमाह -
इत्थं मत्सूक्तयस्ते शशधरशिखर स्फारसारस्वतौघ-
प्रोन्मीलद्वऋशुक्तिस्खलदमलमिलन्मौक्तिकव्यक्तिभाजः
तीव्रापत्तापताम्यत्सहृदयहृदयक्कान्तिशान्तिप्रगल्भा
 

 
दर्भाग्रस्पर्धिबुद्धिग्रथितदृढगुणाः कर्णपूरीभवन्तु ॥ ४५ ॥
 
हे विभो शशधरशिखर चन्द्रमौले, इत्थं पूर्वोक्तेन प्रकारेण मत्सूक्तयस्ते तव विभोः
कर्णपूरीभवन्तु कर्णावतंसाः संपद्यन्ताम् । किंभूतास्ताः । स्फार उल्लसन्यः सारस्वतौघो
वाणीसंबन्धी रसप्रवाह एव सरस्वतीनदीसंबन्धी प्रवाहस्तेन प्रोन्मीलत्प्रकर्षेण विलसद्य-
द्वक्रं मुखं सैव शुक्तिस्तस्याः स्खलन्त्यमलानि मिलन्ति यानि मौक्तिकानि वचनरूपाणि
तेषां व्यक्तिं प्रकटीभावं भजन्ति तादृश्यः । तथा किंभूताः । तीव्रा कठिना या आपद्भ-
वामयदुःखं तेन यस्तापः संतापस्तेन ताम्यन्तो ये सहृदयास्तेषां हृदयक्लान्तेः शान्तौ
प्रगल्भाः । पुनः कीदृश्यः । दर्भाग्रस्पर्धिनी अतिसूक्ष्मा या बुद्धिस्तया प्रथिता दृढा गुणा
माधुर्यौजःप्रसादाख्यास्त्रयो यासां ताः । मुक्ता अपि शुक्तिभवास्तापहारिण्यो गुणैस्तन्तुभि
बंद्धाश्च भवन्तीति शिवम् ॥
 
इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपश्चिकया समेतं काश्मीरक-
महाकविश्रीजगद्धरभद्वविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्ज लौ
कर्णपूरस्तोत्रं त्रयस्त्रिंशम् ।
 
चतुरिंशं स्तोत्रम् ।
अथातो ग्रन्थकृच्चतुस्त्रिंशमभ्यवर्णस्तोत्रमारभमाण आह-
सर्पत्कंदर्पदर्पज्वरभरहरणव्यग्रवर्चः प्रपञ्च -
प्रत्यग्रब्रध्नचन्द्रज्वलदनलवलत्पक्ष्मलञ्यक्षवत्रः ।
 
१. 'प्रत्यक्ष' ख.
 
Digitized by Google