This page has been fully proofread once and needs a second look.

काव्यमाला ।
 
तासां कासामित्याह—धातुरिति
 
। लोकसृष्टिविधौ चातुर्यभाजो ब्रह्मणश्चतुर्भ्यो मुखेभ्यो
 
याः श्रुतयोऽजनिषत उत्पन्नाः । किंभूताः । कृतप्रीतयः । केषाम् । नाकस्थितानाम् ।

साकं सदैव ॥
 

 
अथातश्चन्द्रमूर्तितिं देवं स्तौति—
 

 
प्रेङ्खद्भिर्यन्मयूखैविंर्विदधति धवले निर्जराः प्राणयात्रां
 

प्रोद्दामानन्दधाम प्रथयति बहुले पारणं यः पितॄणाम् ।

कुर्वन्नुर्वन्तरिक्षं प्रशमिततिमिरं यः समस्तौषधीनां
 

पीनां पुष्णाति भातिं तनुरतनुरसौ चन्द्रमास्ते नमस्ते ॥ ४२ ॥

 
हे भगवन्, असौ चन्द्रमास्तवातनुर्महती तनुर्मूर्तिर्भवति । ते तुभ्यं नमोऽस्तु । असौ क

इत्याह – निर्जरा देवाः धवले शुक्लपक्षे प्रेङ्खद्भिरुल्लसद्भिर्यस्य चन्द्रमसो मयूखैः किरणैः प्राण-

यात्रां विदधति कुर्वति । तथा यश्चन्द्रमा बहुले कृष्णपक्षे प्रोत्कटानन्दस्थानं पितॄणां पारणं

प्रथयति । 'उभौ निरुक्तौ खलु शुक्लकृष्णौ शुभाशुभे कर्मणि तौ प्रशस्तौ । शुक्लपक्षो दैवः

कृष्णपक्षः पैत्र इति ज्योतिः शास्त्रे संहिताविदः । तथा यश्चन्द्रमाः समस्तौषधीनां पीवरां

भातिं दीप्तिं पुष्णाति । किं कुर्वन् । शमिततिमिरं ध्वस्तान्धकारं उरु महदन्तरिक्षं कुर्वन् ॥

अथातः सूर्यमूर्ति देवं स्तौति-

 
प्रातः प्राभञ्जनेऽस्मिन्पथि पथिकमिव ध्वान्तकान्तारताम्य-

ल्
लोकालोकार्पणार्थं प्रमुदितमुदितं यं समर्चन्ति सन्तः ।

सायं ध्यायन्ति संध्याविधिमधि सुधियो बाधिताधिं समाधिं
 

साधिम्नाधिष्ठिता यं त्वमिह स मिहिरः सद्गभस्ते नमस्ते ॥ ४३ ॥
 

 
हे सद्गभस्ते, सन्तः शोभना गभस्तयो रश्मयो यस्य स तस्य संबोधनम् । इह जगति

त्वं मिहिरः सूर्योऽसि । ते तुभ्यं नमोऽस्तु । स मिहिरः सूर्यः कः । प्रातरित्यादि । प्रा-

भञ्जने पथि आकाशे पान्थमिव ध्वान्तमन्धकार एव कान्तारं दूरशून्योऽध्वा तत्र ता-

म्यन्तो ये लोकास्तेषामालोकार्पणार्थं प्रकाशवितरणाय प्रातरुदितम् । तथा सुधियः सुकृ

तिनः साधिन्म्ना बाढत्वेन समाधिं संयतचित्तत्वमधिष्ठिता यं सूर्ये सायं समये ध्यायन्ति ।

संध्याविधिमधि संध्यासमय इत्यर्थः । किंभूतं यम् । बाधिता आधयो मनःपीडा व्याधयश्च

येन स तम् । 'आरोग्यं भास्करादिच्छेच्छ्रियमिच्छेद्धुताशनात्' इति स्मृतेः ॥

अथातः परब्रह्मस्वरूपं निष्कलेश्वरं परमशिवं स्तौति -

 
दिग्देशाकारकालैरकलितविभवं यन्महद्वीबीजभूतं
 

भूतग्रामस्य यस्य त्रिभुवनविषयं वस्तुजातं विवर्तः ।

यस्मिन्हेम्नीव नानाभरणपरिकरो लीयते विश्वमन्ते
 

तद्भिन्नेष्वप्यभिन्नं भव भवसि परं ब्रह्म तस्मै नमस्ते ॥ ४४ ॥
 
Digitized by Google