This page has not been fully proofread.

काव्यमाला ।
 
तासां कासामित्याह—धातुरिति
 
। लोकसृष्टिविधौ चातुर्यभाजो ब्रह्मणश्चतुर्भ्यो मुखेभ्यो
 
याः श्रुतयोऽजनिषत उत्पन्नाः । किंभूताः । कृतप्रीतयः । केषाम् । नाकस्थितानाम् ।
साकं सदैव ॥
 
अथातश्चन्द्रमूर्ति देवं स्तौति—
 
प्रेमद्भिर्यन्मयूखैविंदधति धवले निर्जराः प्राणयात्रां
 
प्रोद्दामानन्दधाम प्रथयति बहुले पारणं यः पितॄणाम् ।
कुर्वन्नुर्वन्तरिक्षं प्रशमिततिमिरं यः समस्तौषधीनां
 
पीनां पुष्णाति भातिं तनुरतनुरसौ चन्द्रमास्ते नमस्ते ॥ ४२ ॥
हे भगवन्, असौ चन्द्रमास्तवातनुर्महती तनुर्मूर्तिर्भवति । ते तुभ्यं नमोऽस्तु । असौ क
इत्याह – निर्जरा देवाः धवले शुक्लपक्षे प्रेङ्खद्भिरुल्लसद्भिर्यस्य चन्द्रमसो मयूखैः किरणैः प्राण-
यात्रां विदधति कुर्वति । तथा यश्चन्द्रमा बहुले कृष्णपक्षे प्रोत्कटानन्दस्थानं पितॄणां पारणं
प्रथयति । 'उभौ निरुक्तौ खलु शुक्लकृष्णौ शुभाशुभे कर्मणि तौ प्रशस्तौ । शुक्लपक्षो दैवः
कृष्णपक्षः पैत्र इति ज्योतिः शास्त्रे संहिताविदः । तथा यश्चन्द्रमाः समस्तौषधीनां पीवरां
भातिं दीप्तिं पुष्णाति । किं कुर्वन् । शमिततिमिरं ध्वस्तान्धकारं उरु महदन्तरिक्षं कुर्वन् ॥
अथातः सूर्यमूर्ति देवं स्तौति-
प्रातः प्राभञ्जनेऽस्मिन्पथि पथिकमिव ध्वान्तकान्तारताम्य-
लोकालोकार्पणार्थं प्रमुदितमुदितं यं समर्चन्ति सन्तः ।
सायं ध्यायन्ति संध्याविधिमधि सुधियो बाधिताधिं समाधिं
 
साधिम्नाधिष्ठिता यं त्वमिह स मिहिरः सद्गभस्ते नमस्ते ॥ ४३ ॥
 
हे सद्गभस्ते, सन्तः शोभना गभस्तयो रश्मयो यस्य स तस्य संबोधनम् । इह जगति
त्वं मिहिरः सूर्योऽसि । ते तुभ्यं नमोऽस्तु । स मिहिरः सूर्यः कः । प्रातरित्यादि । प्रा-
भञ्जने पथि आकाशे पान्थमिव ध्वान्तमन्धकार एव कान्तारं दूरशून्योऽध्वा तत्र ता-
म्यन्तो ये लोकास्तेषामालोकार्पणार्थ प्रकाशवितरणाय प्रातरुदितम् । तथा सुधियः सुकृ
तिनः साधिन्ना बाढत्वेन समाधिं संयतचित्तत्वमधिष्ठिता यं सूर्ये सायं समये ध्यायन्ति ।
संध्याविधिमधि संध्यासमय इत्यर्थः । किंभूतं यम् । बाधिता आधयो मनःपीडा व्याधयश्च
येन स तम् । 'आरोग्यं भास्करादिच्छेच्छ्रियमिच्छेद्धुताशनात्' इति स्मृतेः ॥
अथातः परब्रह्मस्वरूपं निष्कलेश्वरं परमशिवं स्तौति -
दिग्देशाकारकालैरकलितविभवं यन्महद्वीजभूतं
 
भूतग्रामस्य यस्य त्रिभुवनविषयं वस्तुजातं विवर्तः ।
यस्मिन्हेम्नीव नानाभरणपरिकरो लीयते विश्वमन्ते
 
तद्भिन्नेष्वप्यभिन्नं भव भवसि परं ब्रह्म तस्मै नमस्ते ॥ ४४ ॥
 
Digitized by Google