This page has been fully proofread once and needs a second look.

३३ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
अथातो वायुमूर्तितिं विभुं स्तौति
 
-
 

 
अन्तः संतिष्ठमानः स्थगयति जगतां पञ्चतां पञ्चधा यः

संघाधाय स्थायिभावं प्रसरति सततं यत्र तेजस्विचक्रम् ।

यत्र स्थैर्यं बिभर्ति त्रिभुवनभवनं बिभ्रदाधारभूतां
 

भूतानां मूर्तिमेष प्रथयति विभुतां मारुतस्ते नमस्ते ॥ ३९ ॥

 
हे विभो, पश्ञ्चधा पश्ञ्चभिर्भेदैः प्राणापानसमानोदानव्यानरूपैरन्तर्देहे संतिष्ठमानः स्वस्व
-
स्थाने स्थितो यो मारुतः पवनो जगतां पञ्चतां निधनं स्थगयति रुणद्धि । 'स्यात्पश्ञ्चता

कालधर्मः' इत्यमरः । तथा संततं नित्यं स्थायिभावं स्थिरत्वं संधायालम्ब्य यत्र यस्मि-

न्पवने तेजस्विचक्रं सूर्यादिग्रहताराचक्रं प्रसरति भ्रमति । तथा यत्र च पवने त्रिभुवन

मेव भवनं सद्म स्थैर्यमेति । भूतानां प्राणिनामाधारभूतां मूर्तितिं बिभ्रदेष मारुतस्ते तव

विभोर्विभूतिं प्रथयति । ते तुभ्यं नमोऽस्तु ॥

अथाकाशमूर्तितिं देवं स्तौति-

 
यत्र ब्रह्माण्डपिण्डः प्रसरति सरलालाबुतुम्बीविडम्बी
 
४०९
 

[^१]
स्थैर्यं झांकारि वारि प्रथयति तदपि स्कन्धबन्धेषु यस्य ।

सोऽपि स्फारेण मर्तुभर्तुं प्रभवति पवनो यस्य नोद्देशलेशं
 

धाम्नामाधारभूतं भव भवति वपुस्तन्नस्ते नमस्ते ॥ ४० ॥

 
हे विभो भव, यत्र यस्मिन्नभसि जले सरला वृत्ता या अलाबुतुम्बी तां विडम्बयत्यनु-

करोति तादृशो ब्रह्माण्डस्य पिण्डः प्रसरति संचरति । तथा यत्र पवने झांकारि सशब्
दं
वारि जलं तदपि स्कन्धबन्धेषु सप्तसु पवनस्कन्धबन्धेषु स्थैर्यं प्रथयति प्रकाशयति । सो-

ऽपि पवनः स्फारेणोल्लासेन यस्य नभस उद्देशलेशं भर्तु न प्रभवति । तन्नभ आकाशं तव

वपुर्मूर्तिभूतं सूर्यादीनामाधारभूतं भवति । ते तुभ्यं नमोऽस्तु ॥
 

अथातो यजमानमूर्तितिं देवं स्तीतौति-

 
धातुश्चातुर्यभाजो जनजननविधौ या मुखेभ्यश्चतुर्म्यः
 
T
 

साकं नाकस्थितानामजनिषत कृतप्रीतयः स्फीतभासाम् ।

तासामासां श्रुतीनां ज<flag></flag> नियतं कर्मभिः शर्मकृद्भिः

साफल्यं यः स यज्वा वपुरवृधृत विपत्संगमस्ते नमस्ते ॥ ४१ ॥

 
हे भगवन्, अधृतविपत्संगमः न धृतो विपदां संगमो येन स यज्वा यजमानस्तव वपु-

र्भवति । तस्मै ते नमोऽस्तु । स क इत्याह -तासामित्यादि । यो यज्वा शर्मकृद्भिर्निःश्रेय-

सप्रदैः कर्मभिः स्फीतभासामधिकद्युतीनामासां श्रुतीनां साफल्यं जनयत्युत्पादयति ।
 

 
[^
]. 'धैर्यं' ख.
५२
 
Digitized by Google