This page has not been fully proofread.

३३ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
अथातो वायुमूर्ति विभुं स्तौति
 
-
 
अन्तः संतिष्ठमानः स्थगयति जगतां पञ्चतां पञ्चधा यः
संघाय स्थायिभावं प्रसरति सततं यत्र तेजस्विचक्रम् ।
यत्र स्थैर्य बिभर्ति त्रिभुवनभवनं बिभ्रदाधारभूतां
 
भूतानां मूर्तिमेष प्रथयति विभुतां मारुतस्ते नमस्ते ॥ ३९ ॥
हे विभो, पश्चधा पश्चभिर्भेदैः प्राणापानसमानोदानव्यानरूपैरन्तर्देहे संतिष्ठमानः स्वस्व
स्थाने स्थि मारुतः पवनो जगतां पञ्चतां निधनं स्थगयति रुणद्धि । 'स्यात्पश्चता
कालधर्मः' इत्यमरः । तथा संततं नित्यं स्थायिभावं स्थिरत्वं संधायालम्ब्य यत्र यस्मि-
न्पवने तेजस्विचक्रं सूर्यादिग्रहताराचक्रं प्रसरति भ्रमति । तथा यत्र च पवने त्रिभुवन
मेव भवनं सद्म स्थैर्यमेति । भूतानां प्राणिनामाधारभूतां मूर्ति बिभ्रदेष मारुतस्ते तव
विभोर्विभूतिं प्रथयति । ते तुभ्यं नमोऽस्तु ॥
अथाकाशमूर्ति देवं स्तौति-
यत्र ब्रह्माण्डपिण्डः प्रसरति सरलालाबुतुम्बीविडम्बी
 
४०९
 
स्थैर्य झांकारि वारि प्रथयति तदपि स्कन्धबन्धेषु यस्य ।
सोऽपि स्फारेण मर्तु प्रभवति पवनो यस्य नोद्देशलेशं
 
धाम्नामाधारभूतं भव भवति वपुस्तन्नमस्ते नमस्ते ॥ ४० ॥
हे विभो भव, यत्र यस्मिन्नभसि जले सरला वृत्ता या अलाबुतुम्बी तां विडम्बयत्यनु-
करोति तादृशो ब्रह्माण्डस्य पिण्डः प्रसरति संचरति । तथा यत्र पवने झांकारि सशब्द
वारि जलं तदपि स्कन्धबन्धेषु सप्तसु पवनस्कन्धबन्धेषु स्थैर्य प्रथयति प्रकाशयति । सो-
ऽपि पवनः स्फारेणोल्लासेन यस्य नभस उद्देशलेशं भर्तु न प्रभवति । तन्नभ आकाशं तव
वपुर्मूर्तिभूतं सूर्यादीनामाधारभूतं भवति । ते तुभ्यं नमोऽस्तु ॥
 
अथातो यजमानमूर्ति देवं स्तीति-
धातुश्चातुर्यभाजो जनजननविधौ या मुखेभ्यश्चतुर्म्यः
 
T
 
साकं नाकस्थितानामजनिषत कृतप्रीतयः स्फीतभासाम् ।
तासामासां श्रुतीनां जन नियतं कर्मभिः शर्मकृद्भिः
साफल्यं यः स यज्वा वपुरवृत विपत्संगमस्ते नमस्ते ॥ ४१ ॥
हे भगवन्, अटतविपत्संगमः न धृतो विपदां संगमो येन स यज्वा यजमानस्तव वपु-
र्भवति । तस्मै ते नमोऽस्तु । स क इत्याह -तासामित्यादि । यो यज्वा शर्मकृद्भिर्निःश्रेय-
सप्रदैः कर्मभिः स्फीतभासामधिकयुतीनामासां श्रुतीनां साफल्यं जनयत्युत्पादयति ।
 
१. 'धैर्य' ख.
५२
 
Digitized by Google