This page has not been fully proofread.

काव्यमाला ।
 
एषा शेषाहिपीठप्रकटितवसतिः संपदां भूतधात्री
पात्रीकुर्वत्यजस्त्रं जनमैनघमघः प्रक्रमस्ते नमस्ते ॥ २६ ॥
 

 
नमोऽस्तु । कस्मै । ते । एषा भूतधात्री प्रक्रमो भवति । आदिमूर्तिनिर्माणप्रारम्भ इ-
त्यर्थः । किं कुर्वती । जनं पात्रीकुर्वती । कासाम् । संपदाम् । एषा कीदृशी। शेषाहिरेव
पीठं तत्र प्रकटिता वसतिर्यया सा । एषा का । या जनिरुत्पत्तिस्थानं भवति । कासाम् ।
निःशेषाश्च ता ओषधयस्तासाम् । कम्पसंपत्संपर्को नाजनि नोदपादि । कुत्र । क्वचित् ।
यत्र यस्यामित्यर्थः । स्थितिर्न भवति । केषाम् । जनानाम् । कुत्र । यत्र । जनानां कीह-
शानाम् । परिभ्रंशं लुठनं भजन्त इति तेषाम् ॥
 
अथातो जलमूर्ति देवं स्तौति-
संसारेऽस्मिन्नसारे परमिह कुशलं कर्म धर्मप्रधानं
 
धर्मः शर्मप्रदोऽपि प्रभवति सुधियां सिद्धये शुद्धिहेतोः ।
शुद्धौ बद्धस्पृहाणां न भवति कृतिनां यद्विनापद्विनाश-
स्त्रैलोक्याप्यायकं तज्जलमपि भगवन्विभ्रमस्ते नमस्ते ॥ ३७ ॥
नमोऽस्तु । कस्मै । ते । तबलमपि विभ्रमो भवति । यस्य ते तनुरचनेत्यर्थः । कीदृ-
शम् । त्रैलोक्याप्यायकम् । तत्किम् । यद्विना आपद्विनाशो न भवति । केषाम् । कृति-
नाम् । कीदृशानाम् । बद्धा स्पृहा यैस्तेषाम् । कस्याम् । शुद्धौ नैर्मल्ये। धर्मप्रधानं कर्म
कुशलं मङ्गलावहं भवति । कस्मिन् । अस्मिन्संसारे । कीदृशे । असारे अस्थिरे । परम-
त्यर्थम् । कुत्रहेतोः । शुद्धिहेतोः । तस्मात् । कीदृशोऽपि । शर्म प्रददातीति सः ॥
अथेदानीममिमूर्ति देवं स्तौति -
 
यं मुक्त्वा जीवयन्तं जगदगदमदः संततं सन्तमन्त-
र्जन्तूनां शीतभीतिप्रकटितविपदामस्ति न स्वस्तिहेतुः ।
गीर्वाणानां हविभिग्र्लपयति विपदं यज्वनामप्यनल्पैः
 
संकल्पैः कल्पितैर्यः स भवति विभवः पावकस्ते नमस्ते ॥३८॥
 
हे विभो, संततं सदैव जन्तूनां देहिनामन्तः सन्तं जठराग्निरूपेणागदं नीरोगं अदः
जनान् जीवयन्तं यं पावकं विना शीतभीत्या प्रकटिता विपद्येषां तादृशानां देहिनां स्व-
स्तिहेतुः कल्याणकृदन्यः कोऽपि नास्ति । तथा योऽग्निर्गीर्वाणानां देवानां विपदमतृप्ति-
रूपां हविभिग्र्लपयति आहुतिभिर्दूरीकरोति । तथा यज्वनां याज्ञिकानामप्यनल्पैर्महद्भिः
कल्पितैः कृतैर्दत्तैः संकल्पैर्मनोरथैर्यज्वनां विपदं ग्लपयति । स पावकोऽभिस्ते तव विभव
ऐश्वर्ये मूर्तिरूपमस्ति । ते तुभ्यं नमोऽस्तु ॥
 
१. अनघो मघो महिमा यस्य. २. 'भगवद्विभ्रमः' ख.
 
Digitized by Google