2023-02-23 21:28:08 by ambuda-bot
This page has not been fully proofread.
३३ स्तोत्रम्]
स्तुतिकुसुमाञ्जलिः ।
करालम् । अन्यच्च भ्रुकुटिकुटिलितम् । अन्यय: भीषणम् । एष कः । यस्त्वामाराधयेत् ।
कुत्र । वनान्ते तरूणामन्तरेऽरण्ये वा । कीदृशे । मन्दश्वासावनिलस्तेनान्दोलिताः कम्पिता
ललिताश्च ता लतास्तासां नृत्तं तेन कान्तस्तस्मिन्ं । यः कीदृशः । शान्ता ईर्ष्या असूया
यस्य सः । त्वां कम् । अविद्यया जडं च तज्जगत्तस्यागदंकारो वैद्यस्तम् । अविद्याहं-
कारः ॥ तिलकम् ॥
आकर्णाकृष्टचापः प्रहरति निभृतं निर्निमित्तापकारी
नारीनेत्रान्ततिर्यग्विवलनविशिखश्रेणिभिः पुष्पचापः ।
फूत्कारस्फारफालः स्फुरदुरुगरलज्वालजिह्वाजटालः
कालव्यालः करालः कवलयति वपुर्हन्तुकामः क्व यामः ॥ ३४॥
तस्मादस्माकमाकस्मिकविकसदसत्कर्मपाकोपताप-
व्यापत्तापातुराणामविरलकरुणासिन्धुरापन्नबन्धुः ।
भक्तिश्रद्धाप्रबन्धानमदमरशिरःश्रेणिमाणिक्यमाला-
ज्वालालीढाङ्घ्रिपीठः शरणमशरणत्राणशीलस्त्वमेकः ॥ ३९ ॥
(युग्मम्)
पुष्यबापः कामः प्रहरति । कथम् । निभृतं गूइम्: । नारीणां नेत्राणि तेषामन्तास्तेषु
तिर्यग्विवलनानि ताम्येव विशिखाः शरास्तेषां श्रेणयस्ताभिः । कीतः । आकर्णमाकृष्
चापं येन सः । अन्यच मिनिमित्तमप्रकरोतीति सः । तिर्यविचलनानि कटाक्षा इत्यर्थः ।
कालस्य व्यालो यमभुजंग: वपुः कवलयति प्रासीकरोति । कीदृशः । फूत्कारस्कारफाल:
फूत्कारेण स्फारः पूर्णः फाल उत्पतनं यस्य सः । अन्यन्च स्फुरंबासौ उरुवासौ गरल-
ज्वालः स एव जिह्वा तया जटालो व्याप्तः । अन्यच करालो हन्तुकामः । वयं क्व
यामः कुत्र ब्रजामः ॥ तस्मात् किंबहुना त्वमेकः शरणं भवसि । केषाम् । अस्माकम् ।
त्वं कीदृशः । अशरणेषु त्राणमेव शीलं यस्य सः । अन्यच्च अविरला चासौ करुणा
तस्याः सिन्धुः । अन्यच भक्तौ श्रद्धा तस्याः प्रबन्धस्तेम नमन्तश्च तेऽमरास्तेषां शि-
रांसि तेषां श्रेणयस्तासु माणिक्यमालास्तासां ज्वालास्तामिलींडमडिपीठं यस्य सः । अ-
स्माकं कीदृशानाम् । अकस्माद्भवो विकसंथ्यासावसत्कर्मपाकस्तस्योपतापतेन जाता
चासौं व्यापत्तया तापस्तेनातुरास्तेषाम् ॥ युग्मम् ॥
अथेदानीं भूमिमूर्ति देवं स्तौति -
-
या निःशेषौषधीनां जनिरजनि पुनर्न क्वचित्कम्पसंप-
त्संपर्को यत्र यत्र स्थितिरुपरि परिभ्रंशमात्र जनानाम् ।
Digitized by Google