This page has been fully proofread once and needs a second look.

३३ स्तोत्रम्]
 
सुतिकुसुमाञ्जलिः ।
 
सोऽयं सर्वजगत्प्रभोरशरणत्राणैकहेवाकिनः

कारुण्यामृतसागरस्य गिरिजाभर्तुः परोऽनुग्रहः ।

कस्तं न स्तुतिभिर्विमर्शरसिकः प्रौढार्पितप्रीतिभिः
 

प्राप्तुं शर्मदकर्मनिर्मलफलं नन्दत्यमन्दादरः ॥ २९ ॥

(पञ्चभिः कुलकम्)
 
४०५
 

 
यत्सौन्दर्येत्यादि पञ्चभिः कुलकम् ॥ को न नन्दति आनन्दं भजते । कामिः । स्तु-

तिभिः । किं कर्तुम् । प्रसादं प्राप्तुम् । कीदृशीभिः स्तुतिभिः । प्रौढैरर्पिता प्रीतिर्यासु

ताः । कः कीदृशः । अमन्द आदरो यस्य सः । तं कीदृशम् । शर्मदकर्मनिर्मलफलं शर्मदं

च तस्त्कर्म तदेव निर्मलं फलं यस्य तत् । यतः सोऽयं परोऽनुग्रहो भवति । कस्य । गि-

रिजाभर्तुः । कीदृशस्य । सर्वजगतां प्रभोः । अन्यच्च अशरणेषु त्राणं तत्रैको हेवाको वि
-
द्यते यस्य । अन्यच्च कारुण्यमेवामृतं तस्य सागरस्तस्य । सोऽयं लोकः । यद्यस्मात् मू-

लफलाशनैः स्थीयते । कुत्र । तरुतले । तरुतलं कुत्र । स्वर्लोककल्लोलिनीकूले गङ्गातटे ।

कीदृशे । राम एव सुखं तस्यास्वादस्तमर्थयन्ते तैः । अन्यच्च प्रेङ्खचासावखर्वश्चासौ ग

र्वस्तेन घटितश्चासौ भ्रूङ्गस्तेन भीमा आकृतिर्येषां तथाविधा ये क्षमाभृत्पाशाः कुत्सिताः
क्ष्माभृत्पाशाः कुत्सिताः
क्ष्माभृ
तस्तेषां घना चासौ प्रोल्लङ्घना अवमानस्ततो भीरवो भीतास्तैः । अखर्वोऽनल्पः ।

यद्यस्मात्सद्भिः सुखं जीव्यते । सद्भिरित्यध्याहारात् । कुत्र । अस्मिन्भवडम्बरे संसारप्रपञ्चे ।

कीदृशे । परिणमंश्चासौ मन्दश्वासावनिलस्तेनान्दोलनं तेन व्यालोलच्च तन्नलिनीदलं त
-
स्याञ्चलं प्रान्तस्तत्र चलंश्वासौ प्रालेयलेशस्तेनोपमा यस्य स तस्मिन् । आन्दोलनं कर्मोंमो-

त्पादनम् । परिणमन्पतन्नित्यर्थः । सद्भिः कीदृशैः । दुष्टश्चासौ कालस्तत्र व्यसनं दुःखं

तेनावसन्ना अवसादं प्राप्ताश्च ता जनतास्तत्र व्यसनं दुःखं संतापस्तस्य निर्वापणं तदेव

व्यापारः स एकः सुकर्मणो निर्मलः फलारम्भो येषां ते तैः । यद्यस्मात्सन्तो नन्दति ।

कैः । दन्तिव्रजैर्हस्तिसमूहैः । कथम् । निःशङ्कम् । कीदृशाः । नित्यं मुदिताः । किं कृत्वा ।

मानुष्यमुपेत्य प्राप्य । कीदृशम् । विकलङ्कम् । अन्यच्च अङ्के विलसन्ती चासौ लक्ष्मी-

स्तस्याः कटाक्षास्तैरीक्षितमवलोकितम् । यद्यस्मात्सन्तः स्वर्मध्यं स्वर्लोकान्तरमध्यासते-

ऽधितिष्ठन्ति । कदा । अन्ते मृत्युसमये । कीदृशाः । पुरुहूतस्य वारवनिता अप्सरस-

स्तासां गीतमेवामृतं तस्याकर्णनं तेन प्रोन्मीलन्तश्च ते पुलकास्तैरवकीर्णं भरितं वपुर्ये-

षाम् ॥ पञ्चभिः कुलकम् ॥
 

 
दृष्टिः पीयूषवृष्टिर्मधुरमधुरसस्यन्दिनी देव बावाणी

पाणी त्वत्पादपीठीपरिमलनरजोराजिमैत्रीपवित्रौ ।

चेतः स्वच्छन्दचर्यापरिणतकरुणारामविश्रामधाम
 

त्वामक्षामप्रसादामृतजलधिमहो भेजुषामेष पाकः ॥ ३० ॥
 
Digitized by Google