This page has been fully proofread once and needs a second look.

३ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
प्यद्भुतम् । स्थाणुहिंर्हि विगतपल्लवो भवति । तथा सुमनोभिः पुष्पैरुपासितेन सेवितेन ।

'सुमनाः स्त्री पुष्पजात्योर्देवपण्डितयोः पुमान्' इति मङ्गःखः

 
दिव्यापगाप्लवनपावकसेवनाभ्यां

बिभ्रत्तनुं शुचिमपेतकलङ्कशङ्काम् ।

दोषानुषङ्गरहितस्तिमिरोपशान्त्यै
 

भूयाद्विजाधिषतिरीश्वरवन्दितो वः ॥ १३ ॥
 

 
दिव्यापगेति । द्विजानां नक्षत्राणामधिपतिश्चन्द्रः । ईश्वरेण परमेशेन वन्दितः ।

शिरसि धृतत्वात् । वो युष्माकं तिमिरोपशान्त्यै । तिमिरं ध्वान्तमज्ञानरूपं च । ऊष्मा

तापत्रयजः मर्वादिभ्रमणजश्च । तयोः शान्त्यै अपुनरागमाय भूयात् । अथ च द्विजानां

ब्राह्मणानामधिपतिः । तिमिरोष्मशान्त्यै अविद्यारूपध्वान्तभवमरुभ्रमणजतापोपशान्त्यै ।

'दन्तविजाप्राण्डजा द्विजाः' इत्यमरः । द्वावपि विशिनष्टि - दिव्यापगेत्यादि । चन्द्रपक्षे

दिव्यापगाया आप्लवनं समीपस्थस्त्वाज्जल कणव्यात्युक्षीरूपम् । तथा पावकस्य तृतीय-

नेत्रस्थस्य च सेवनम् । तस्यान्तिकस्थत्वात् । ताभ्यां शुचिचिं निर्मलाम् । अपेतकलङ्क-

शङ्कां [गतकलङ्कां] विगतबाह्यान्तर्मलां गतकलङ्कशङ्कां च । एककलत्वाच्चन्द्रस्येत्यर्थः ।

एवंभूतां तनुं बिभ्रत् । अत एव दोषाया रात्रेरनुषङ्गः संसर्गस्तेन रहितः । ब्राह्मणेन्द्र-

पक्षे दिव्यापगायां गङ्गायां यत्प्लवनं त्रिसंध्यं मज्जनम् । तथा पावकसेवनं अग्निहोत्र-

सेवा । ताभ्यां मूर्ति शुचिचिं निर्मलां त्रिविगतबाह्यान्तर्मलां गतकलङ्कशङ्कां च बिभ्रत् ।

तथा दोषेषु मनश्चापल्यादिषु अनुषङ्ग आसक्तिस्तेन रहितः । तथा ईश्वरा देशाधिपतयः

तैश्च सेवितो भवति विप्रेन्द्रश्चेति ॥
 

 
दानाम्बुनिर्भरकरस्तनयः स यस्य
 

श्रीमान्स [^१]यस्य धनदः सविधे विधेयः ।

यः संश्रितः शिरसि मुक्तकरेण राज्ञा
 

पुष्णातु वः कनकवर्षघनः स देवः ॥ १४ ॥
 

 
दानाम्ब्विति । कनकस्य वर्षेषं वर्षणं मरुत्ताख्यनृपतेर्गेहे सप्तदिनावधि काञ्चनवर्षणं

तत्र घनो मेघः । आरोपः । देवः परमेशो वो युष्मान् पातु । स क इत्याह - दाना-

म्ब्विति । यस्य महेश्वरस्य तनयः दानाम्बुना मदजलेन निर्भरः पूर्णः करो यस्य ।

गणपतिस्तनय इत्यर्थः । अथ च यस्य तनयः पुत्रः दानार्थमुदकेन च निर्भरः पूर्णः

करः पाणिर्यस्य तादृशो भवति । तथा श्रीमान् महापद्मादिनवसंख्याकनिधिपतिः स

प्रसिद्धो धनदः सविधे निकटे यस्य विधेयो भृत्यः आज्ञाकारी । यश्च मुक्तकरेण मुक्ताः

सर्वदिक्षु विकीर्णाः कराः किरणा येन तादृशेन राज्ञा चन्द्रमसा शिरसि संश्रितः । तथा

 
[^
]. 'यस्य सविधे धनदो विधेयः' इति क-पाठ: .
 
Digitized by Google