This page has not been fully proofread.

३ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
प्यद्भुतम् । स्थाणुहिं विगतपल्लवो भवति । तथा सुमनोभिः पुष्पैरुपासितेन सेवितेन ।
'सुमनाः स्त्री पुष्पजात्योर्देवपण्डितयोः पुमान्' इति मङ्गः ॥
दिव्यापगाठवनपावकसेवनाभ्यां
बिभ्रत्तनुं शुचिमपेतकलङ्कशङ्काम् ।
दोषानुषङ्गरहितस्तिमिरोपशान्त्यै
 
भूयाद्विजाधिषतिरीश्वरवन्दितो वः ॥ १३ ॥
 
दिव्यापगेति । द्विजानां नक्षत्राणामधिपतिश्चन्द्रः । ईश्वरेण परमेशेन वन्दितः ।
शिरसि धृतत्वात् । वो युष्माकं तिमिरोपशान्त्यै । तिमिरं ध्वान्तमज्ञानरूपं च । ऊष्मा
तापत्रयजः मर्वादिभ्रमणजश्च । तयोः शान्त्यै अपुनरागमाय भूयात् । अथ च द्विजानां
ब्राह्मणानामधिपतिः । तिमिरोष्मशान्त्यै अविद्यारूपध्वान्तभवमरुभ्रमणजतापोपशान्त्यै ।
'दन्तविप्राण्डजा द्विजाः' इत्यमरः । द्वावपि विशिनष्टि - दिव्यापगेत्यादि । चन्द्रपक्षे
दिव्यापगाया आप्लवनं समीपस्थस्वाज्जल कणव्यात्युक्षीरूपम् । तथा पावकस्य तृतीय-
नेत्रस्थस्य च सेवनम् । तस्यान्तिकस्थत्वात् । ताभ्यां शुचि निर्मलाम् । अपेतकलङ्क-
शङ्कां [गतकलङ्कां] विगतबाह्यान्तर्मलां गतकलङ्कशङ्कां च । एककलत्वाच्चन्द्रस्येत्यर्थः ।
एवंभूतां तनुं बिभ्रत् । अत एव दोषाया रात्रेरनुषङ्गः संसर्गस्तेन रहितः । ब्राह्मणेन्द्र-
पक्षे दिव्यापगायां गङ्गायां यत्प्लवनं त्रिसंध्यं मज्जनम् । तथा पावकसेवनं अग्निहोत्र-
सेवा । ताभ्यां मूर्ति शुचि निर्मलां त्रिगतबाह्यान्तर्मलां गतकलङ्कशङ्कां च बिभ्रत् ।
तथा दोषेषु मनश्चापल्यादिषु अनुषङ्ग आसक्तिस्तेन रहितः । तथा ईश्वरा देशाधिपतयः
तैश्च सेवितो भवति विप्रेन्द्रश्चेति ॥
 
दानाम्बुनिर्भरकरस्तनयः स यस्य
 
श्रीमान्स यस्य धनदः सविधे विधेयः ।
यः संश्रितः शिरसि मुक्तकरेण राज्ञा
 
पुष्णातु वः कनकवर्षघनः स देवः ॥ १४ ॥
 
दानाम्ब्विति । कनकस्य वर्षे वर्षणं मरुत्ताख्यनृपतेर्गेहे सप्तदिनावधि काञ्चनवर्षणं
तत्र घनो मेघः । आरोपः । देवः परमेशो वो युष्मान् पातु । स क इत्याह - दाना-
म्ब्विति । यस्य महेश्वरस्य तनयः दानाम्बुना मदजलेन निर्भरः पूर्णः करो यस्य ।
गणपतिस्तनय इत्यर्थः । अथ च यस्य तनयः पुत्रः दानार्थमुदकेन च निर्भरः पूर्णः
करः पाणिर्यस्य तादृशो भवति । तथा श्रीमान् महापद्मादिनवसंख्याकनिधिपतिः स
प्रसिद्धो धनदः सविधे निकटे यस्य विधेयो भृत्यः आज्ञाकारी । यश्च मुक्तकरेण मुक्ताः
सर्वदिक्षु विकीर्णाः कराः किरणा येन तादृशेन राज्ञा चन्द्रमसा शिरसि संश्रितः । तथा
१. 'यस्य सविधे धनदो विधेयः' इति क-पाठ:.
 
Digitized by Google