This page has been fully proofread once and needs a second look.

४०४
 
काव्यमाला ।
 
यथा चान्द्री कला पदं स्थितिं विधत्ते । कुत्र । भवतो मूर्ध्नि । गीः किं कुर्वती । पीयूषं

वर्षन्ती । कैः । दशनांचुशुभिः । पीयूषं कीदृशम् । भवस्य दोषास्तेषां पोषस्तेन परुषश्चासौ

प्लोषो दाहस्तस्य प्रमोषस्तत्र क्षमम् । अन्यच्च किं कुर्वती । विषमं तमः कर्षन्ती । कस्य ।

लोकस्य । कीदृशस्य । प्रमथित आलोको यस्य स तस्य । चान्द्री कला चैवंविधैव ॥
 

 
यत्पर्याप्तकृपाविपाकविकसन्माधुर्यधुर्य तव
 
यं तव
स्वान्तं भीमभवोपतापविपदि स्फीतावहेलं मयि ।

स्वामिन्नेष विधिर्ममैव विधुरो दूराध्वखिन्नो जन-

स्तीराद्रत्ननिधेर्व्यपैति विफलः स्वैरेव दुष्कर्मभिः ॥ २४ ॥

 
हे स्वामिन्, एष विधिर्विधुरो भवति । विरुद्ध इत्यर्थः । कस्य । ममैव । कस्मात् । य

स्मात्स्वान्तं स्फीतावहेलं भवति । कस्मिन् । मयि । स्फीता पूर्णा । स्वान्तं मनः ।

कस्य । तव । मयि कीदृशे । भीमश्चासौ भवोपतापस्तेन विपद्यस्य तस्मिन् । स्वान्तं की-

दृशम् । कृपाया विपाकस्तेन विकसच्च तन्माधुर्यं तेन धुर्यं ज्येष्ठम् । जनो विफल उपैति

गच्छति । कुतः । रत्ननिधेस्तीरात् । कैः । स्वैरेव दुष्कर्मभिः । कीदृशः । दूराध्वस्त्रिखिन्नः ॥

 
यत्सौन्दर्यसमुद्रसान्द्रलहरीहेलाचलच्चामर-

व्यप्ग्राङ्गाङ्गुलिबालमालववधूदृक्पातपात्रं
वपुः ।
सेवासंनिधिशंसिसंभ्रमनमत्सामन्तमौलिस्थली-
वपुः ।
 

ली
ढाङ्घ्रिद्वयमुद्वहन्ति कृतिनः सौभाग्यभाग्यास्पदम् ॥ २९ ॥

 
यच्
च प्रेङ्खदखर्वगर्वघटितभ्रूभङ्गभीमाकृति-

क्ष्माभृत्पाशमुखावलोकनघनप्रोल्लङ्घनाभीरुभिः ।

उन्मीलन्मृदुशाद्वले तरुतले स्वर्लोककल्लोलिनी-

कूले मूलफलाशनैः शमसुधास्वादार्थिभिः स्थीयते ॥ २६ ॥

 
यच्चास्मिन्भवडम्बरे परिणमन्मन्दानिलान्दोलन-

व्यालोलन्नलिनीदलाञ्चलचलप्रालेयलेशोपमे ।

दुष्कालव्यसना वसन्नजनतासंतापनिर्वापण-

व्यापारैकसुकर्मनिर्मलफलारम्भैः सुखं जीव्यते ॥ २७ ॥

 
निःशङ्कं विकलङ्कमङ्कविलसल्लक्ष्मीकटाक्षेक्षितं

यन्मानुष्यमुपेत्य नित्यमुदिता नन्दन्ति दन्तिव्रजैः ।

यच्चान्ते पुरुहूतवारवनितागीतामृताकर्णन-

प्रोन्मीलत्पुलकावकीर्णवपुषः स्वर्मध्यमध्यासते ॥ २८ ॥
 
Digitized by Google