2023-02-23 21:28:08 by ambuda-bot
This page has not been fully proofread.
४०४
काव्यमाला ।
यथा चान्द्री कला पदं स्थितिं विधत्ते । कुत्र । भवतो मूर्ध्नि । गीः किं कुर्वती । पीयूषं
वर्षन्ती । कैः । दशनांचुभिः । पीयूषं कीदृशम् । भवस्य दोषास्तेषां पोषस्तेन परुषश्चासौ
प्लोषो दाहस्तस्य प्रमोषस्तत्र क्षमम् । अन्यच्च किं कुर्वती । विषमं तमः कर्षन्ती । कस्य ।
लोकस्य । कीदृशस्य । प्रमथित आलोको यस्य स तस्य । चान्द्री कला चैवंविधैव ॥
यत्पर्याप्तकृपाविपाकविकसन्माधुर्यधुर्य तव
स्वान्तं भीमभवोपतापविपदि स्फीतावहेलं मयि ।
स्वामिन्नेष विधिर्ममैव विधुरो दूराध्वखिन्नो जन-
स्तीराद्रत्ननिधेर्व्यपैति विफलः स्वैरेव दुष्कर्मभिः ॥ २४ ॥
हे स्वामिन्, एष विधिविधुरो भवति । विरुद्ध इत्यर्थः । कस्य । ममैव । कस्मात् । य
स्मात्स्वान्तं स्फीतावहेलं भवति । कस्मिन् । मयि । स्फीता पूर्णा । स्वान्तं मनः ।
कस्य । तव । मयि कीदृशे । भीमश्चासौ भवोपतापस्तेन विपद्यस्य तस्मिन् । स्वान्तं की-
दृशम् । कृपाया विपाकस्तेन विकसच्च तन्माधुर्य तेन धुर्य ज्येष्ठम् । जनो विफल उपैति
गच्छति । कुतः । रत्ननिधेस्तीरात् । कैः । स्वैरेव दुष्कर्मभिः । कीदृशः । दूराध्वस्त्रिनः ॥
यत्सौन्दर्यसमुद्रसान्द्रलहरीहेलाचलच्चामर-
व्यप्राङ्गाङ्गुलिबालमालववधूहक्पातपात्रं
सेवासंनिधिशंसिसंभ्रमनमत्सामन्तमौलिस्थली-
वपुः ।
लढायमुहन्ति कृतिनः सौभाग्यभाग्यास्पदम् ॥ २९ ॥
यच प्रेङ्खदखर्वगर्वघटितभ्रूभङ्गभीमाकृति-
क्ष्माभृत्पाशमुखावलोकनघनप्रोल्लङ्घनाभीरुभिः ।
उन्मीलन्मृदुशाद्वले तरुतले स्वर्लोककल्लोलिनी-
कूले मूलफलाशनैः शमसुधास्वादार्थिभिः स्थीयते ॥ २६ ॥
यच्चास्मिन्भवडम्बरे परिणमन्मन्दानिलान्दोलन-
व्यालोलन्नलिनीदलाञ्चलचलप्रालेयलेशोपमे ।
दुष्कालव्यसना वसन्नजनतासंतापनिर्वापण-
व्यापारैकसुकर्मनिर्मलफलारम्भैः सुखं जीव्यते ॥ २७ ॥
निःशङ्कं विकलङ्कमङ्कविलसल्लक्ष्मीकटाक्षेक्षितं
यन्मानुष्यमुपेत्य नित्यमुदिता नन्दन्ति दन्तिव्रजैः ।
यच्चान्ते पुरुहूतवारवनितागीतामृताकर्णन-
प्रोन्मीलत्पुलकावकीर्णवपुषः स्वर्मध्यमध्यासते ॥ २८ ॥
Digitized by Google