This page has been fully proofread once and needs a second look.

३३ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
४०३
 
पिता कया । भक्तिवयस्यया भक्तिरेव वयस्या तया । कदा । आदौ आरम्भे । कथम् ।

शनैः । अन्यच विषमेषुवर्त्मस्वारूढा पञ्चशरमार्गं प्राप्ता । अन्यच्च भ्रान्ता । किन्त
यन्तं
कालम् । सुचिरम् । अथानन्तरम् । किम् । पदम् । कस्याः । तान्तेर्ग्लनैःलानेः । इति कामिनी

प्रत्यर्थः । मुख्योऽर्थो मतितिं प्रति यथा - मतिः कीदृशी । प्रथमं भक्त्या औत्सुक्यं नीता ।

कुतो हेतोः । परिचयाद्विद्यासंस्कारात् । तदनन्तरं विषमेषु वर्त्मसु सुच्चिरं बहुकालं

भ्रान्ता । तदनन्तरं खेदास्पदं जातेति ॥
 

 
धूमोद्गारगभीरघस्मरवपुर्निर्भर्त्सितार्कप्रभं

स्फूर्जस्फूत्कृतकर्बुरीकृतसितश्रीकान्तदेहद्युति ।

ग्रासीकर्तुमुदग्रविग्रहगलद्वबिह्विस्फुलिङ्गं विषं
 

को जग्राह करेऽमरेश्वरनुतस्त्वामन्तरेणापरः ॥ २१ ॥

 
कोऽपरो विषं जग्राह । कुत्र । करे । किं कर्तुम् । प्ग्रासीकर्तुम् । कमन्तरेण । स्त्वामन्त-

रेण भवन्तं विना । कीदृशः । अमरेश्वरेणेन्द्रेण नुतः । विषं कीदृशम् । घूमस्यीद्वाथोद्गारस्तेन

गभीरं घस्मरं च तद्वपुस्तेन निर्भर्त्सिता तिरस्कृता अर्कप्रभा येन तत् । अन्यच्च स्फूर्जच्

तत्फूत्कृतं तेन कर्बुरीकृता सिता श्रीकान्तदेहद्युतिर्येन तत् । श्रीकान्तो विष्णुः । प्रथमं

तावद्विष्णुः सितोऽभूत् । पुनः कालकूटवशात्कृष्णः संपन्न इत्यागमः । अन्यच्च उदप्रबाग्रश्चासौ

विग्रहस्तस्माद्द्वलन्तो वहिस्फुलिङ्गा यस्य तत् ॥
 

 
क्रोधोद्धाभ्रान्तकृतान्त किंकरकरदोद्रोणीमुखप्रेचिङ्खित-
-
 

व्यालालिङ्गितकंधरः प्रकटयनाक्रन्ददीनां गिरम् ।

चक्षुर्दिक्षु षिदिक्षु च क्षतधृतिर्निक्षिप्य रक्षाक्षमं

काङ्क्षन्कं शरणं वृणोति मरणे स्वामन्तरेणात्तुरः ॥ २२ ॥
या

 
तुरः कं शरणं बृवृणोत्यभ्यर्यते । कमन्तरेण । त्वामन्तरेण । किं कुर्वन् । रक्षाक्षमं

काङ्क्षन् । किं कृत्वा । चक्षुर्निक्षिप्य । कासु । दिक्षु विदिक्षु च । अन्यच्च किं कुर्वन् । गिरं

प्रकटयन्प्रकाशयन् । कीदृशीम् । आक्रन्ददीनाम् । कीदृशः । क्रोधोद्धान्तवाभ्रान्तश्चासौ कृ-

तान्तकिंकरस्तस्य कर एव द्रोणी पुष्करिणी तस्या मुखं तस्मात्प्रेशिङ्खित उल्लसितश्वाचासौ व्या-

लस्तेनालिङ्गिता कंधरा यस्य सः ॥
 

 
वर्षन्ती भवदोषपोषपरुषप्लोषप्रमोषक्षमं
 

पीयूषं विशदांशुभिर्दश दिशत्काशप्रकाशा दिशः ।

कर्षन्ती विषमं तमः प्रमथितालोकस्य लोकस्य गी-

श्
चान्द्री मूर्ध्नि कलेव देव भवतो व्क्त्रे विधत्तां पदम् ॥ २३ ॥

 
गीः पदं विधत्ताम् । कुत्र । वक्त्रे । कस्य । भवतः । हे देव, गी: केव । चान्द्री कलेव
 
Digitized by Google