This page has not been fully proofread.

३३ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
४०३
 
पिता कया । भक्तिवयस्यया भक्तिरेव वयस्या तया । कदा । आदौ आरम्भे । कथम् ।
शनैः । अन्यच विषमेषुवर्त्मस्वारूढा पञ्चशरमार्ग प्राप्ता । अन्यच भ्रान्ता । किन्त
कालम् । सुचिरम् । अथानन्तरम् । किम् । पदम् । कस्याः । तातेग्लनैः । इति कामिनी
प्रत्यर्थः । मुख्योऽर्थो मति प्रति यथा - मतिः कीदृशी । प्रथमं भक्त्या औरसुक्यं नीता ।
कुतो हेतोः । परिचयाद्विद्यासंस्कारात् । तदनन्तरं विषमेषु वर्त्मसु सुचिरं बहुकालं
भ्रान्ता । तदनन्तरं खेदास्पदं जातेति ॥
 
धूमोद्गारगभीरघस्मरवपुर्निर्भसितार्कप्रभं
स्फूर्जस्फूत्कृतकर्बुरीकृतसितश्रीकान्तदेहयुति ।
ग्रासीकर्तुमुदग्रविग्रहगलद्वबिस्फुलिङ्गं विषं
 
को जग्राह करेऽमरेश्वरनुतस्त्वामन्तरेणापरः ॥ २१ ॥
कोऽपरो विषं जग्राह । कुत्र । करे । किं कर्तुम् । प्रासीकर्तुम् । कमन्तरेण । स्वामन्त-
रेण भवन्तं विना । कीदृशः । अमरेश्वरेणेन्द्रेण नुतः । विषं कीदृशम् । घूमस्यीद्वारस्तेन
गभीरं घस्मरं च तद्वपुस्तेन निर्भसिता तिरस्कृता अर्कप्रभा येन तत् । अन्यच स्फूर्जच
तत्फूत्कृतं तेन कर्बुरीकृता सिता श्रीकान्तदेहयुतिर्येन तत् । श्रीकान्तो विष्णुः । प्रथमं
तावद्विष्णुः सितोऽभूत् । पुनः कालकूटवशात्कृष्णः संपन्न इत्यागमः । अन्यच उदप्रबासौ
विग्रहस्तस्माद्द्वलन्तो वहिस्फुलिङ्गा यस्य तत् ॥
 
क्रोधोद्धान्तकृतान्त किंकरकरदोणीमुखप्रेचित-
-
 
व्यालालिङ्गितकंधरः प्रकटयनाक्रन्ददीनां गिरम् ।
चक्षुर्दिक्षु षिदिक्षु च क्षतधृतिर्निक्षिप्य रक्षाक्षमं
काङ्क्षन्कं शरणं वृणोति मरणे स्वामन्तरेणात्तुरः ॥ २२ ॥
यातुरः कं शरणं बृणोत्यभ्यर्धयते । कमन्तरेण । त्वामन्तरेण । किं कुर्वन् । रक्षाक्षमं
काङ्क्षन् । किं कृत्वा । चक्षुर्निक्षिप्य । कासु । दिक्षु विदिक्षु च । अन्यच्च किं कुर्वन् । गिरं
प्रकटयन्प्रकाशयन् । कीदृशीम् । आक्रन्ददीनाम् । कीदृशः । क्रोधोद्धान्तवासौ कृ-
तान्तकिंकरस्तस्य कर एव द्रोणी पुष्करिणी तस्या मुखं तस्मात्प्रेशित उल्लसितश्वासौ व्या-
लस्तेनालिङ्गिता कंधरा यस्य सः ॥
 
वर्षन्ती भवदोषपोषपरुषप्लोषप्रमोषक्षमं
 
पीयूषं विशदांशुभिर्दश दिशत्काशप्रकाशा दिशः ।
कर्षन्ती विषमं तमः प्रमथितालोकस्य लोकस्य गी-
चान्द्री मूर्ध्नि कलेव देव भवतो व विधत्तां पदम् ॥ २३ ॥
गीः पदं विधत्ताम् । कुत्र । वक्रे । कस्य । भवतः । हे देव, गी: केव । चान्द्री कलेव
 
Digitized by Google