This page has been fully proofread once and needs a second look.

स्तुतिकुसुमाञ्जलिः ।
 
खट्टानेवाङ्गे मुकुटे करे श्रवणयोः प्रायेण यो भूषणं

ब्रह्मोपेन्द्रपुरःसरामरशिरःश्रेणिणिं बिभर्तेि प्रभुः ।

तत्पादाम्बुजभक्तिभावितमतिर्धन्यः शिरोभूषण-

ख्यातिं निश्चितमश्नुते त्रिभुवनप्रष्ठप्रतिष्ठाजुषाम् ॥ १४ ॥
 

 
धन्यः शिरोभूषणख्यातिमश्नुते । शिरोभूषणमिति प्रथां प्राप्नोति । केषाम् । त्रिभुवने

प्रष्ठा अभ्ग्र्या या प्रतिष्ठा कीर्तिस्तां जुषन्तीति तेषाम् । धन्यः कीदृशः । तस्य प्रभोः पा

दावेवाम्बुजे तयोर्भक्तिस्तत्र भाविता मतिर्यस्य सः । तस्य कस्य । यः प्रभुर्ब्रह्मोपेन्द्रपुरःस
-
रामरशिरःश्रेणिणिं भूषणं बिभर्ति । कुत्र । खट्टावाङ्गे मुकुटे करे श्रवणयोः । स्वामी ब्रह्मादिदेव-

तामुण्डान्यहर्निशमजरामरत्वाच्छिरःप्रभृतिषु स्थानेषु धारयतीत्यर्थः ॥

 
रोहन्मोहमहीरुहोरुपरशुर्दुर्वारमारज्वर-

प्लोषोल्लाघभिषग्विषौघविषमक्लेशोप्ग्रशापावधिः ।

ताम्यल्लोचनचक्रवाकमिथुनब्रघ्ध्नोदयश्चन्द्रिका-
३३ स्तोत्रम्]
 

पूरश्चित्तचकोरकस्य जयति श्रीकण्ठपूजाविधिः ॥ १५ ॥
 

 
श्रीकण्ठस्य पूजाविधिर्जयति । कः । रोहंश्चासौ मोह एव महीरुहस्तस्योरुश्वासौ परभुः
शुः
कुठारः । अन्यच्च कः । दुर्वारश्चासौ मार एव ज्वरस्तस्य प्लोषो दाहस्तत उल्लाघो नीरोग-

करणं तत्र भिषग्वैद्यः । अन्यच्च कः । ताम्यतां ग्लानिं भजतां लोचनान्येव चक्रवाका-

स्तेषां मिथुनानि तेषां ब्रध्नोदयः सूर्योदयः । अन्यच्च कः । चन्द्रिकापूरः । कस्य । चित्तमेव

चकोरस्तस्य ॥
 

 
अर्चाचां वीक्ष्य विचित्रचारुरचनां चन्द्रार्धचूडामणे-

र्व्यक्तितिं भक्तिचमत्कृतिः कृतधियो यस्यैति चित्ते मुहुः ।

तस्मिन्सस्पृहमर्पिताः सचकिताः साचीकृताः सस्मिताः

साकूताश्च पतन्ति पक्ष्मलदृशां प्रेमामृतार्द्रा दृशः ॥ १६ ॥
 

 
दृशः पतन्ति । कस्मिन् । तस्मिन् । कासाम् । पक्ष्मलदृशाम् । कीदृश्यः । अर्पिताः ।

कथम् । सस्पृहम् । अन्यच्च सचकिताः । साचीकृता वक्रीकृताः । सस्मिताः । साकूताः

साभिप्रायाः । प्रेमामृतार्द्राः ॥
 

 
स्वामिन्सौमनसं निबध्य वपुषि स्रग्दाम दृग्दामभि-

र्भस्मीभावितमन्मथस्य भवतो भिन्दन्ति भक्तिस्पृशः ।

दोलान्दोलन विह्वलेन्दुवदनादोः कन्दलीचन्दन-

स्यन्दानन्दनिमीलितार्धनयनास्तापव्यथां
 
मान्मथीम् ॥ १७ ॥
 
Digitized by Google