This page has been fully proofread once and needs a second look.

४००
 
काव्यमाला ।
 
शुचो यामिस्ताः । अन्यच पीयूषधारां मुच्चन्तीति । स्वान्तस्य क्लान्तितिं हरन्तीति ।

चमत्कृतिं कुर्वन्तीति । संगीतस्य भङ्गीं बिभ्रतीति ॥

 
सारासारविदः सतां भयभिदः प्रोरह्वोपतापच्छिदः
 

कारुण्यार्द्रहृदः प्रपन्नसुहृदः स्फारीभवत्संविदः ।

त्राताशेषविशः प्रकाशितदिशः कीर्त्या महीनिर्विशः
 

कर्षन्तीश निशः प्रसक्तसुदृशस्त्वत्पादपीठस्पृशः ॥ ११ ॥
 

 
हे ईश, त्वत्पादपीठस्पृशो निशो रात्रीः कर्षन्ति अतिवायन्ति । कीदृश्यः । प्रस-

क्तसुदृशः प्राप्ताङ्गनाः । अन्यच्च सारं चासारं च विन्दन्तीति समाहारे द्वन्द्वः । भयं
मि

भि
न्दन्तीति भयभिदः । केषाम् । सताम् । प्रहाह्वानामुपतापं छिन्दन्तीति । कारुण्येना
र्द्रं
हृदयं येषाम् । प्रपन्नाः सुहृदो येषाम् । स्फारीभवन्ती संविद्येषाम् । त्राता अशेषा विशः

प्रजा यैस्ते । प्रकाशिता दिशो यैस्ते । कया । कीर्त्या । महीं निर्विशन्तीति ॥

 
दुर्धर्षर्द्धिं धिपुषः सहर्षवपुषस्तर्षप्रकर्षप्लुषः

सर्वोत्कर्षजुषः क्षणक्षतरुषः कल्याणपूर्णायुषः ।

उत्सर्पत्सहसः समिद्धमहसः क्षिप्तोर्जितानेहस-

श्विचिन्तान्तप्रहसः सुखाप्तरहसस्त्वद्ध्यानधौतांहसः ॥ १२ ॥
 
.
 

 
त एवंविधा भवन्ति । ते के । त्वद्ध्यानधौतांहसः । कीदृशाः । दुर्धर्षर्द्धिंधिपुषः । अन्यच्च
सहर्ष

सहर्षं
वपुर्येषाम् । तर्षस्य प्रकर्षे प्लषं प्लुषन्ति दहन्तीति । सर्वेभ्य उत्कर्षेषं जुषन्ति श्रयन्तीति ।

क्षणेन क्षता रुद्स् यैस्ते । कल्याणेन पूर्णमायुर्वेयेषां ते । उत्सर्पत्सहो बलं येषां ते । समिद्धो

महो येषां ते । क्षिप्त ऊर्जितोऽनेहा कालो यैस्ते । चित्तान्तात्प्रहसन्तीति । सुखेनाप्तं

रहो यैस्ते ॥
 

 
कालं बालकुरङ्गकेतनकृतोत्तंसप्रशंसामृत-

स्यन्दास्वादविनोदनैर्यदनयन्निःस्पन्दमन्दं मनः ।

तस्यान्यत्र कविक्रमे कमलिनीकिंजल्कपानोत्सव-

व्यग्रस्येव मधुव्रतस्य कुसुमेऽन्यस्मिन्कथं स्याद्तिः ॥ १३ ॥
 

 
रतिः सक्तिः कथं स्यात् । कस्य । तस्य । कुत्र । अन्यत्र कविक्रमे । तस्य कस्येव ।

मधुव्रतस्य भ्रमरस्येव । यथा तस्य रतिरन्यत्र कुसुमे नास्ति । कीदृशस्य । कमलिनीकिं-

जल्कपानोत्सवव्यप्ग्रस्य । तस्य कस्य । यन्मनः कालमनयदतिवाइयामास । कैः । बाल-

श्वासौ कुरङ्गकेतनश्चन्द्रः स एव कृत उत्तंसो येन तस्य प्रशंसा सैवामृतं तस्य स्यन्दः

प्रवाहस्तस्य स्वाद एव विनोदनानि क्रीडास्तैः । मनः कीदृशम् । निःस्पन्दमत एव
 

मन्दमचापलम् ॥
 
Digitized by Google