2023-02-23 21:28:07 by ambuda-bot
This page has not been fully proofread.
४००
काव्यमाला ।
शुचो यामिस्ताः । अन्यच पीयूषधारां मुबन्तीति । स्वान्तस्य क्लान्ति हरन्तीति ।
चमत्कृतिं कुर्वन्तीति । संगीतस्य भङ्गीं बिभ्रतीति ॥
सारासारविदः सतां भयभिदः प्रोपतापच्छिदः
कारुण्यार्द्रहृदः प्रपन्नसुहृदः स्फारीभवत्संविदः ।
त्राताशेषविशः प्रकाशितदिशः कीर्त्या महीनिर्विशः
कर्षन्तीश निशः प्रसक्तसुदृशस्त्वत्पादपीठस्पृशः ॥ ११ ॥
हे ईश, त्वत्पादपीठस्पृशो निशो रात्रीः कर्षन्ति अतिवाइयन्ति । कीदृश्यः । प्रस-
क्तसुदृशः प्राप्ताङ्गनाः । अन्यच्च सारं चासारं च विन्दन्तीति समाहारे द्वन्द्वः । भयं
मिन्दन्तीति भयभिदः । केषाम् । सताम् । प्रहानामुपतापं छिन्दन्तीति । कारुण्येनाई
हृदयं येषाम् । प्रपन्नाः सुहृदो येषाम् । स्फारीभवन्ती संविद्येषाम् । त्राता अशेषा विशः
प्रजा यैस्ते । प्रकाशिता दिशो यैस्ते । कया । कीर्त्या । महीं निर्विशन्तीति ॥
दुर्धर्षद्धिं पुषः सहर्षवपुषस्तर्षप्रकर्षप्लषः
सर्वोत्कर्षजुषः क्षणक्षतरुषः कल्याणपूर्णायुषः ।
उत्सर्पत्सहसः समिद्धमहसः क्षिप्तोर्जितानेहस-
श्विन्तान्तप्रहसः सुखाप्तरहसस्त्वद्ध्यानधौतांहसः ॥ १२ ॥
.
त एवंविधा भवन्ति । ते के । त्वयानधौतांहसः । कीदृशाः । दुर्धर्षद्धिंपुषः । अन्यच्च
सहर्ष वपुर्येषाम् । तर्षस्य प्रकर्षे प्लषन्ति दहन्तीति । सर्वेभ्य उत्कर्षे जुषन्ति श्रयन्तीति ।
क्षणेन क्षता रुद् यैस्ते । कल्याणेन पूर्णमायुर्वेषां ते । उत्सर्पत्सहो बलं येषां ते । समिद्धो
महो येषां ते । क्षिप्त ऊर्जितोऽनेहा कालो यैस्ते । चित्तान्तात्प्रहसन्तीति । सुखेनाप्तं
रहो यैस्ते ॥
कालं बालकुरङ्गकेतनकृतोत्तंसप्रशंसामृत-
स्यन्दास्वादविनोदनैर्यदनयन्निःस्पन्दमन्दं मनः ।
तस्यान्यत्र कविक्रमे कमलिनीकिंजल्कपानोत्सव-
व्यग्रस्येव मधुव्रतस्य कुसुमेऽन्यस्मिन्कथं स्याद्वतिः ॥ १३ ॥
रतिः सक्तिः कथं स्यात् । कस्य । तस्य । कुत्र । अन्यत्र कविक्रमे । तस्य कस्येव ।
मधुव्रतस्य भ्रमरस्येव । यथा तस्य रतिरन्यत्र कुसुमे नास्ति । कीदृशस्य । कमलिनीकिं-
जल्कपानोत्सवव्यप्रस्य । तस्य कस्य । यन्मनः कालमनयदतिवाइयामास । कैः । बाल-
श्वासौ कुरङ्गकेतनश्चन्द्रः स एव कृत उत्तंसो येन तस्य प्रशंसा सैवामृतं तस्य स्यन्दः
प्रवाहस्तस्य स्वाद एव विनोदनानि क्रीडास्तैः । मनः कीदृशम् । निःस्पन्दमत एव
मन्दमचापलम् ॥
Digitized by Google