This page has been fully proofread once and needs a second look.

३३ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
३९९
 
दृशस्य । पुरंदरस्य पुरी तस्यां कान्ता तासां कटाक्षच्छटास्ता एव बाणश्रेणयस्तासां

शरव्यं लक्ष्यं दिव्यं वपुर्यस्य तस्य ॥
 

 
हर्षोत्कर्षविवर्धिनीः परिणतक्षौद्रद्रवस्पर्धिनी-

धन्यानां मधुरास्तव स्तवगिरः कर्णे चिरं कुर्वताम् ।

मान्द्यं विन्दति नन्दनेन्दुवदनासंदिग्धमुग्धाधर-

प्रोन्मीलन्मधुबिन्दुसुन्दरसुधासंदोहदो दोहदः ॥ ८ ॥
 

 
दोहदोऽभिलाषो मान्द्यं विन्दति अल्पतां लभते । कीदृशः । नन्दने इन्दुवदना-
स्तामिः

स्ताभिः
संदिग्धाश्च ता मुग्धास्तासामघरस्तस्य प्रोन्मीलञ्च्च तन्मधु तस्य बिन्दवस्त

एव सुन्दरः सुधासंदोहोऽमृतप्रवाहस्तं ददातीति । केषाम् । धन्यानाम् । कीदृशानाम् । स्त-

वगिरः कर्णे कुर्वतामाकर्णयताम् । कस्य । तव । कियन्तं कालम् । चिरम् । कीदृशीः ।

हर्षस्योत्कर्षस्तं विवर्धयन्तीति । अन्यच्च परिणतः परिपक्को यः क्षौद्रस्य द्रस्वतं स्पर्ध-

यन्त्य इति । अन्यच्च मधुराः ॥
 

 
सद्विद्याभ्यसनः सभानिवसनः सौधासनाध्यासनः

शुद्धान्नग्रसनः सुधौतवसनः सत्साध्वसध्वंसनः ।
सहा

सह्ला
दोल्लसनः प्रसन्नहसनः संपन्नसद्वासनः
 

सत्काव्यव्यसनः सुधार्द्ररसनः शंभोः कृतोपासनः ॥ ९ ॥
 

 
शंभोः कृतोपासन एवंविधो भवति । सद्विद्यास्वभ्यसनं यस्य सः । अन्यच्च समाभायां

निवसनं निवासो यस्य सः । अन्यच्च सौधे आसनं तत्राध्यासनं यस्य सः । अन्यच्च शु-

द्धमन्नप्ग्रसनं यस्य सः । अन्यच्च सुष्नुटु धौतं वसनं यस्य सः ............ अन्यच्च सह
हा

ह्ला
देनोल्लासेन वर्तते इति । अन्यच्च प्रसन्नं इसनं यस्य सः संपन्ना सती वासना यस्य सः ।

सत्सु काव्येषु व्यसनं यस्य सः । सुधयार्द्रा अमृतसिक्ता रसना यस्य सः ॥
 

 
राकाकान्तरुचः क्षताखिलशुचः पीयूषधारामुचः

स्वान्तक्लान्तिहृतश्चमत्कृतिकृतः संगीतभङ्गीभृतः ।

शंभोरम्बुदनादविह्वलवलद्वाबालाङ्गनालिङ्गन-

ह्लादस्वादसुखस्पृहामिह जहत्यन्तर्मृशन्तः स्तुतीः ॥ १० ॥
 

 
धन्या अम्बुदनादेन विह्वला वलन्त्यश्च या बालाङ्गनास्ता सामालिङ्गनं तेन हाह्लादस्तेन

सुखं तत्र स्पृहा तां जति त्यजन्ति । कुत्र । इह संसारे । किं कुर्वन्तः । स्तुतीर्मृशन्तः ।

कुत्र । अन्तर्मनसि । अथवा स्तुतयः कुत्र । इह शिवनुतिकाव्ये । स्तुतीः कीदृशी: । रा

काकान्तवद्रुग् यासां ताः । रुक् कान्तिः नैर्मल्यं प्रसन्नतेत्यर्थः । अन्यच्च क्षता अखिलाः
 
Digitized by Google