This page has not been fully proofread.

३३ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
३९९
 
दृशस्य । पुरंदरस्य पुरी तस्यां कान्ता तासां कटाक्षच्छटास्ता एव बाणश्रेणयस्तासां
शरव्यं लक्ष्यं दिव्यं वपुर्यस्य तस्य ॥
 
हर्षोत्कर्षविवर्धिनीः परिणतक्षौद्रद्रवस्पर्धिनी-
धन्यानां मधुरास्तव स्तवगिरः कर्णे चिरं कुर्वताम् ।
मान्द्यं विन्दति नन्दनेन्दुवदनासंदिग्धमुग्धाधर-
प्रोन्मीलन्मधुबिन्दुसुन्दरसुधासंदोहदो दोहदः ॥ ८ ॥
 
दोहदोऽभिलाषो मान्द्यं विन्दति अल्पतां लभते । कीदृशः । नन्दने इन्दुवदना-
स्तामिः संदिग्धाश्च ता मुग्धास्तासामघरस्तस्य प्रोन्मीलञ्च तन्मधु तस्य बिन्दवस्त
एव सुन्दरः सुधासंदोहोऽमृतप्रवाहस्तं ददातीति । केषाम् । धन्यानाम् । कीदृशानाम् । स्त-
वगिरः कर्णे कुर्वतामाकर्णयताम् । कस्य । तव । कियन्तं कालम् । चिरम् । कीदृशीः ।
हर्षस्योत्कर्षस्तं विवर्धयन्तीति । अन्यच्च परिणतः परिपक्को यः क्षौद्रस्य द्रस्वतं स्पर्ध-
यन्त्य इति । अन्यच्च मधुराः ॥
 
सद्विद्याभ्यसनः सभानिवसनः सौधासनाध्यासनः
शुद्धान्नग्रसनः सुधौतवसनः सत्साध्वसध्वंसनः ।
सहादोल्लसनः प्रसन्नहसनः संपन्नसद्वासनः
 
सत्काव्यव्यसनः सुधार्द्ररसनः शंभोः कृतोपासनः ॥ ९ ॥
 
शंभोः कृतोपासन एवंविधो भवति । सद्विद्यास्वभ्यसनं यस्य सः । अन्यच समायां
निवसनं निवासो यस्य सः । अन्यच्च सौधे आसनं तत्राध्यासनं यस्य सः । अन्यच्च शु-
द्धमन्नप्रसनं यस्य सः । अन्यच्च सुष्नु धौतं वसनं यस्य सः ............ अन्यच सह
हादेनोल्लासेन वर्तते इति । अन्यच्च प्रसन्नं इसनं यस्य सः संपन्ना सती वासना यस्य सः ।
सत्सु काव्येषु व्यसनं यस्य सः । सुधयार्द्रा अमृतसिक्ता रसना यस्य सः ॥
 
राकाकान्तरुचः क्षताखिलशुचः पीयूषधारामुचः
स्वान्तक्लान्तिहृतश्चमत्कृतिकृतः संगीतभङ्गीभृतः ।
शंभोरम्बुदनादविह्वलवलद्वालाङ्गनालिङ्गन-
ह्लादस्वादसुखस्पृहामिह जहत्यन्तर्मृशन्तः स्तुतीः ॥ १० ॥
 
धन्या अम्बुदनादेन विह्वला वलन्त्यश्च या बालाङ्गनास्ता सामालिङ्गनं तेन हादस्तेन
सुखं तत्र स्पृहा तां जइति त्यजन्ति । कुत्र । इह संसारे । किं कुर्वन्तः । स्तुतीर्मृशन्तः ।
कुत्र । अन्तर्मनसि । अथवा स्तुतयः कुत्र । इह शिवनुतिकाव्ये । स्तुतीः कीदृशी: । रा
काकान्तवद्रुग् यासां ताः । रुक् कान्तिः नैर्मल्यं प्रसन्नतेत्यर्थः । अन्यच्च क्षता अखिलाः
 
Digitized by Google