This page has been fully proofread once and needs a second look.

३९८
 
काव्यमाला ।
 
तस्मै शेषाय भगवते नमः । कीदृशाय । त्रैलोक्याद्भुतमूर्तये । तस्मै कस्मै । यस्य

शिरोदशशती साफल्यमश्रुनुते । कैः । त्वन्नमनैर्भवत्प्रणामैः । चक्षुःसहस्रद्वयं च साफल्यम-

श्रुते । कैः । सौन्दर्यसंदर्शनैः । अन्यच्च कैः । चारित्राणां श्रवणान्येवोत्सवास्तैः । कस्य ।

भवतः । रसनासहस्रद्वयं साफल्यम श्रुश्नुते । कैः । त्वत्कीर्तनैस्त्वत्स्तवोदोदीरणैः ॥

 
राकेन्दोरपि माधवादपि सतां सङ्कादपि स्वामिनः

संमानादपि कामिनीकुचयुगाभोगोपभोगादपि ।

शंभो शर्व शशाङ्कशेखर शिव श्रीकण्ठ विश्वेश्वर

त्रायस्वेति सतां हरन्ति हृदयं सान्द्रामृतार्द्रा गिरः ॥ ५ ॥
 

 
इति गिरो हृदयं हरन्ति । केषाम् । सताम् । कीदृश्यः । सान्द्रामृतार्द्राः । इति

किम् । शंभो, शर्व, शशाङ्कशेखर, शिव, श्रीकण्ठ, विश्वेश्वर, त्रायस्वेति । कुतोऽपि ।

राका पूर्णिमा तस्यामिन्दुस्तस्मादपि । अन्यच्च माधवाद्वसन्तादपि । अन्यच्च सतां

सङ्गादपि । अन्यच्च स्वामिनः संमानादपि । अन्यच्च कामिन्याः कुचयुगं तस्याभोगो

विस्तारस्तस्योपभोगस्तस्मादपि ॥
 

 
श्यामाकामुकमाधवादिविरसं नासीरकस्तूरिका-

काश्मीरादिनिरादरं मलयजालेपावलेपावहम् ।

कुर्वन्ति प्रविधूतनूतनवधूगाढाङ्गसङ्गस्पृहं
 

चेतः कस्य न शांभवस्तवसुधासिक्ताः सतां सूक्तयः ॥ ६ ॥

 
सतां सूक्तयः कस्य चेतो न कुर्वन्ति । कीदृशम् । श्यामाकामुकश्चन्द्रः, माधवो

वसन्तस्तावादौ येषां ते तेषु विरसम् । अन्यच्च, नासीरं घनसारं कस्तूरिका मृगमदः

काश्मीरं कुङ्कुमं तदादिषु निरादरम् । अन्यच्च मलयजस्य चन्दनस्यालेपस्तस्यावलेपमा-

वहति तादृशम् । अन्यश्च्च नूतना चासौ वधूस्तस्या गाढश्वाचासावङ्गसङ्गस्तत्र स्पृहा प्रकर्षेण

विधूता येन तम् । सूक्तयः कीदृश्यः । शांभवस्तव एव सुधा तया सिक्ताः ॥

 
यस्यैताः स्तवसूक्तयस्तव मुखे खेलन्ति हेलाजित-

ज्वालाजालजटालकालरसनासंरम्भसंभावनाः ।

वल्गन्त्यस्य पुरः पुरंदरपुरीकान्ताकटाक्षच्छटा-

बाणश्रेणिशरव्यदिव्यवपुषः स्वर्बन्दिवृन्दोक्तयः ॥ ७ ॥
 
स्वर्ष

 
स्वर्ब
न्दिनां वृन्दानि तेषां सूक्तय उल्लसन्ति । कुत्र । अस्य पुरतः । अस्य कस्य ।

एताः स्तवरूपाः सूक्तयो यस्य मुखे खेलन्ति । कस्य स्तवसूक्तयः । तव । कीदृश्यः ।

ज्वालानां जालानि तान्येव जटा, विद्यन्ते यस्य तथाविधश्वासौ कालस्तस्य रसना

तस्याः संरम्भ आटोपस्तस्य संभावना निश्चयः हेलया जिता याभिस्ताः । अस्य की
 
Digitized by Google