This page has been fully proofread once and needs a second look.

३३ स्तोत्रम् वाग्देव्याः [^१]
 
स्तुतिकुसुमाञ्जलिः ।
 
प्रचलस्खलद्भुजलताक्षेपक्कणत्कङ्कण-

क्वाणश्चङ्क्रमणक्रमे विजयते चन्द्रार्धमौलेः स्तवः ॥ १ ॥
 
वाग्देव्याः
 
३९७
 
काश्चीकाञ्चनकिङ्किणीकलकलः ।
 

 
स्तवो विजयते । कस्य । चन्द्रार्धमौलेः । स्तवः कः ।
काव्श्चीकाञ्चनकिङ्किणीकलकलः ।
काञ्च्
याः काञ्चनमय्यश्च ताः किङ्किण्यस्तासां कलकलः । अन्यच्च कः । शिञ्जानमञ्जीरजो-

झांकारः । शिञ्जानौ यौ मञ्जीरौ नूपुरौ ताभ्यां जातः सशब्दनूपुरजातः शब्दः । अ-

न्यच्च कः । सकलाङ्गभूषणमणिश्रेणीझणाडम्बरः । अन्यच्च कः । प्रचलस्खलद्भुजलता-

क्षेपक्कणत्कङ्कणक्काणः । कदा । चङ्क्रमणक्रमे । क्रमः परिपाटी ॥

 
स्वामिन्वाङ्मयदेवता भगवती स्वेच्छाविहारक्रिया-

क्रीडाकाननमाननं भव भवद्भक्तस्य नूनं व्यधात् ।

नो चेन्नूतननूतनः प्रतिदिनं [^१]हृद्यः समुद्यन्क्रमा-

दस्मिन्नुज्ज्वलवर्णकोमलपदन्यासः कथं लक्ष्यते ॥ २ ॥
 

 
हे स्वामिन्, वाङ्मयदेवता भगवती आननं स्वेच्छाविहारक्रियाक्रीडाकाननं व्यधात् ।

नूनं निश्चितम् । कस्य । भवद्भक्तस्य । हे भव, एवं चेद्यदि न भवति तदा जनेनास्मि

न्
नुज्ज्वलवर्णकोमलपदन्यासः कथं लक्ष्यते दृश्यते । उज्ज्वलाश्च ते वर्णा अक्षराणि तैः

कोमलो रम्यः पदन्यासः कवित्वं यस्मिन्नस्मिन् शिवस्तुतिकाव्ये । अथ चोज्ज्वलवर्णः

कोमलः पदन्यासश्चरणनिक्षेप उचित इत्यर्थान्तरम् । वर्णकोऽलक्तकः ॥

 
स्वैरं कैरविणीकुटुम्बकलिकालंकार सारस्वत -

स्फारखारसिकप्रसादविशदस्वाधीनवाग्देवताः ।

धन्याः सत्कवयस्तव स्तवनिभात्त्वद्भक्तिभाजां विप
 

त्तापापाकृतये दिशन्ति शिशिरस्निग्धाः सुधाविप्रुषः ॥ ३ ॥

 
हे कैरविणीकुटुम्बकलिकालंकार चन्द्रचूड सत्कवयः सुधाविप्रुषोऽमृतकणान्दि-

शन्ति । केषाम् । त्वद्भक्तिभाजाम् । कुतः । स्तवनिभात्स्तोत्रव्याजात् । किमर्थम् । वि

पत्तापापाकृतये आपत्संतापनिवारणाय । कीदृशी: । शिशिरस्निग्धाः । अन्यच्च, सार-

स्वतश्चासौ स्फार उल्लासः स एव स्वारसिकः प्रसादस्तेन विशदा स्वाधीना वाग्दे-

वता येषां ते ॥
 

 
यस्य त्वन्नमनैः शिरोदशशती सौन्दर्यसंदर्शनै-

श्
चारित्रश्रवणोत्सवैश्च भवतश्चक्षुः सहस्रद्वयम् ।

साफल्यं रसनासहस्रयुगलं त्वत्कीर्तनैश्चाश्नुते
 

त्रैलोक्याद्भुतमूर्तये भगवते शेषाय तस्मै नमः ॥ ४ ॥

 
[^
]. 'प्रचलोच्छलतूत्' क.
[^
]. 'सद्यः' ख.
 
Digitized by Google