This page has been fully proofread once and needs a second look.

३९६
 
काव्यमाला ।
 
हे हर । कीदृश । जगदनुग्रहमहितविग्रह । जगत्यनुग्रहस्तेन महितो विग्रहो यस्य त

स्यामन्त्रणम् । त्रिपुरं शास्तीति त्रिपुरशासन । त्वं जगद्धरं चतुरमुद्धर । कीदृशम् ।

कृतपरिग्रहसब्रद्भहम् । परिग्रहे संञ्श्चासौ ग्रहो हेवाकः कृतः परिग्रहसग्रद्भहो येन । अथवा

'संग्रहं' इति पाठः । अन्यच्च शला कलुषा वासना यस्य तम् । अन्यच्च असत्सूपा-

सनं तत्र लालसं सस्पृहम् । अन्यच्च घनचमत्कृत्या कृता नमस्कृतिर्येन तम् । अन्यच्च

उचिता सत्कृतिः पूजा तत्र सस्पृहम् ॥
 

 
वरद नन्दय विपदमर्दय किमिति निर्दयतेदृशी

कृतनिवेदनमतुलवेदनमुदितखेदनवापदम् ।

दिश यशोधन हृदयशोधनविमलबोधनदीं दृशं
 

चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ ७ ॥
 

 
हे वरद, त्वं जगद्धरं चतुरमुद्धर । कीदृशम् । कृता निवेदना आर्तिनिवेदनं येन तम् ।

अन्यच्च अतुला वेदना यस्य तम् । उदितखेद एव नवा आपद्यस्य तम् । हे वरद, त्वं

नन्दय उल्लासं भज । त्वं विपदमर्दय मन्दीकुरु । ईदृशी निर्दयता किमिति भवति । हे

यशोधन, त्वं दृशं दिश । काम् । हृदयशोधनविमलबोधनदीं हृदयशोधनश्वाचासौ विमल-

बोधस्तस्य नदीम् ॥
 

 
अभयमर्पय कपटमल्पय शिरसि कल्पय मे पदं
 

मुखमुदञ्चय वचनमञ्चय वरद वञ्चय मा नतम् ।

भृशमविश्रमकृतपरिश्रमशतमतिश्रमनिःसहं
 

चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ ८ ॥
 

 
हे हर, त्वं जगद्धरं चतुरमुद्धर । त्वमभयमर्पय । त्वं कपटमल्पय । त्वं पदं कल्पय ।

कुत्र । शिरसि । कस्य । मे मम । त्वं मुखमुदञ्चयोल्लासय । त्वं वचनमञ्चय शोभय । मु
श्वे

ञ्चे
त्यर्थः । हे वरद, त्वं मां नतं मा वश्ञ्चय । जगद्धरं कीदृशम् । अविश्रमं कृतानि परि

श्रमशतानि येन तम् । अन्यच्चातिशयेन श्रमस्तेन निःसहम् ॥
 

 
इति
 

श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपश्चिकया समेतं

काश्मीरकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य

स्तुतिकुसुमाञ्जलौ शरणागतोद्धरणस्तोत्रं द्वात्रिंशम् ।
 

 
त्रयस्त्रिंशं स्तोत्रम् ।

अथातो ग्रन्थकृत्कर्णपूरस्तोत्रमारभमाण आह -
 

 
काञ्चीकाञ्चनकिंङ्किणीकलकलः शिञ्जानमञ्जीरजो-

झांकारः सकलाङ्गभूषणमणिश्रेणीझणाडम्बरः ।
 
Digitized by Google