2023-02-23 21:28:07 by ambuda-bot
This page has not been fully proofread.
३९६
काव्यमाला ।
हे हर । कीदृश । जगदनुग्रहमहितविग्रह । जगत्यनुग्रहस्तेन महितो विग्रहो यस्य त
स्यामन्त्रणम् । त्रिपुरं शास्तीति त्रिपुरशासन । त्वं जगद्धरं चतुरमुद्धर । कीदृशम् ।
कृतपरिग्रहसब्रहम् । परिग्रहे संञ्चासौ ग्रहो हेवाकः कृतः परिग्रहसग्रहो येन । अथवा
'संग्रहं' इति पाठः । अन्यच्च शवला कलुषा वासना यस्य तम् । अन्यच्च असत्सूपा-
सनं तत्र लालसं सस्पृहम् । अन्यच्च घनचमत्कृत्या कृता नमस्कृतिर्येन तम् । अन्यच्च
उचिता सत्कृतिः पूजा तत्र सस्पृहम् ॥
वरद नन्दय विपदमर्दय किमिति निर्दयतेदृशी
कृतनिवेदनमतुलवेदनमुदितखेदनवापदम् ।
दिश यशोधन हृदयशोधनविमलबोधनदीं दृशं
चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ ७ ॥
हे वरद, त्वं जगद्धरं चतुरमुद्धर । कीदृशम् । कृता निवेदना आर्तिनिवेदनं येन तम् ।
अन्यच्च अतुला वेदना यस्य तम् । उदितखेद एव नवा आपद्यस्य तम् । हे वरद, त्वं
नन्दय उल्लासं भज । त्वं विपदमर्दय मन्दीकुरु । ईदृशी निर्दयता किमिति भवति । हे
यशोधन, त्वं दृशं दिश । काम् । हृदयशोधनविमलबोधनदीं हृदयशोधनश्वासौ विमल-
बोधस्तस्य नदीम् ॥
अभयमर्पय कपटमल्पय शिरसि कल्पय मे पदं
मुखमुदञ्चय वचनमञ्चय वरद वञ्चय मा नतम् ।
भृशमविश्रमकृतपरिश्रमशतमतिश्रमनिःसहं
चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ ८ ॥
हे हर, त्वं जगद्धरं चतुरमुद्धर । त्वमभयमर्पय । त्वं कपटमल्पय । त्वं पदं कल्पय ।
कुत्र । शिरसि । कस्य । मे मम । त्वं मुखमुदञ्चयोल्लासय । त्वं वचनमञ्चय शोभय । मु
श्वेत्यर्थः । हे वरद, त्वं मां नतं मा वश्चय । जगद्धरं कीदृशम् । अविश्रमं कृतानि परि
श्रमशतानि येन तम् । अन्यच्चातिशयेन श्रमस्तेन निःसहम् ॥
इति
श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपश्चिकया समेतं
काश्मीरकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य
स्तुतिकुसुमाअलौ शरणागतोद्धरणस्तोत्रं द्वात्रिंशम् ।
त्रयस्त्रिंशं स्तोत्रम् ।
अथातो ग्रन्थकृत्कर्णपूरस्तोत्रमारभमाण आह -
काञ्चीकाञ्चनकिंङ्किणीकलकलः शिञ्जानमञ्जीरजो-
झांकारः सकलाङ्गभूषणमणिश्रेणीझणाडम्बरः ।
Digitized by Google