This page has been fully proofread once and needs a second look.

३२ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
प्रमुखपेशलविषमवैशसविषयपाशवशीकृतं

प्रकृतिदुर्ग्रहगुरुपरिग्रहनिबिडपीडितविग्रहम् ।

ज्वलदनर्गलभवदवानलकवलिताकुलचेतसं
 

चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ ३ ॥
 

 
हे हर, त्वं जगद्धरं चतुरमुद्धर । कीदृशम् । प्रमुखपेशलाश्च ते विषमवैशसाश्च ते

विषयपाशास्तैर्वशीकृतम् । वैशसं दुःखम् । अन्यच्च प्रकृत्या दुर्ब्ग्रहश्चासौ गुरुश्चासौ परिप्र
ग्र
हस्तेन निबिडपीडितो विग्रहो यस्य तम् । अन्यच्च ज्वलंश्वासावनर्गलश्च भव एव दवा-

नलस्तेन कवलितमाकुलितं चेतो यस्य तम् ॥
 

 
पवनवेल्लितकमलिनीदलतलचलज्जलचञ्चलं

विभवयौवन[^१]सुतसुखादिकमिति विवेकविसंस्थुलम् ।

बलवदिन्द्रियकपटतस्करहठविलुण्ठनविह्वलं
 
३९९
 

चतुरमुद्धर हर जगद्धरमशरणं शरणागतम्
 

 
हे हर, त्वं जगद्धरं चतुरमुद्धर । कीदृशम् । विवेके विसंस्थुलं विशृङ्लम् । कथमिति ।

विभवयौवनसुतसुखादिकमेवंविधं भवति । विभवश्च यौवनं च सुताश्च सुखं च ता-

न्यादौ यत्र तत् । कीदृशम् । पवनेन वेल्लितं च तत्कमलिनीदलं तस्य तलं तत्र चल
च्च
तज्जलं तद्वच्चञ्चलम् । अन्यत्रञ्च इन्द्रियाण्येव कपटतस्करा बलवन्तश्च ते इन्द्रियकपट-

तस्करास्तेषां हठेन विलुण्ठनं मोषणं तेन विह्वलम् ॥
 

 
समदनन्दनमदनमर्दन दुरिततर्दनलोलुभं
 

भुवनभावन परमपावन सुदृढभावनमानतम् ।

शशिकलाञ्छितमुकुटलाञ्छित विफलवाञ्छितमाकुलं

चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ ५॥
 

 
हे हर । कथंभूत । समदं नन्दनं मदनं मर्दयतीति । अन्यच्च शशिकलया आञ्छितं

च तन्मुकुटं तेन लाञ्छित । भुवनानि भावयतीति भुवनभावन । परमश्चासौ पावनश्च

परमपावनस्तस्यामन्त्रणम् । त्वं जगद्धरं चतुरमुद्धर । कीदृशम् । दुरितस्य तर्दनं न्यक्का-

रस्तत्र लोलुभम् । अन्यच्च विफलं वाञ्छितमभिप्रेतं यस्य तम् । अन्यच्चाकुलम् । अन्यच्च

सुनुष्ट्रु दृढा भावना यस्य तम् । आनतम् ॥
 

 
जगदनुग्रहमहितविग्रह कृतपरिग्रहसद्ग्रहं
 

त्रिपुरशासन शबलवासनमसदुपासनलालसम् ।

घनचमत्कृतिकृतनमस्कृतिमुचित सत्कृतिसस्पृहं
 

चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ ६ ॥
 
.

 
[^
]. 'सुखसुतादिकं' ख.
 
Digitized by Google