This page has not been fully proofread.

३२ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
प्रमुखपेशलविषमवैशसविषयपाशवशीकृतं
प्रकृतिदुर्ग्रहगुरुपरिग्रहनिबिडपीडितविग्रहम् ।
ज्वलदनर्गलभवदवानलकवलिताकुलचेतसं
 
चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ ३ ॥
 
हे हर, त्वं जगद्धरं चतुरमुद्धर । कीदृशम् । प्रमुखपेशलाश्च ते विषमवैशसाश्च ते
विषयपाशास्तैर्वशीकृतम् । वैशसं दुःखम् । अन्यच्च प्रकृत्या दुर्ब्रहश्चासौ गुरुश्चासौ परिप्र
हस्तेन निबिडपीडितो विग्रहो यस्य तम् । अन्यच्च ज्वलंश्वासावनर्गलश्च भव एव दवा-
नलस्तेन कवलतमाकुलितं चेतो यस्य तम् ॥
 
पवनवेल्लितकमलिनीदलतलचलज्जलचञ्चलं
विभवयौवनसुतसुखादिकमिति विवेकविसंस्थुलम् ।
बलवदिन्द्रियकपटतस्करहठविलुण्ठनविह्वलं
 
३९९
 
चतुरमुद्धर हर जगद्धरमशरणं शरणागतम्
 
हे हर, त्वं जगद्धरं चतुरमुद्धर । कीदृशम् । विवेके विसंस्थुलं विशृङ्गलम् । कथमिति ।
विभवयौवनसुतसुखादिकमेवंविधं भवति । विभवश्च यौवनं च सुताश्च सुखं च ता-
न्यादौ यत्र तत् । कीदृशम् । पवनेन वेल्लितं च तत्कमलिनीदलं तस्य तलं तत्र चलच
तज्जलं तद्वच्चञ्चलम् । अन्यत्र इन्द्रियाण्येव कपटतस्करा बलवन्तश्च ते इन्द्रियकपट-
तस्करास्तेषां हठेन विलुण्ठनं मोषणं तेन विह्वलम् ॥
 
समदनन्दनमदनमर्दन दुरिततर्दनलोलुभं
 
भुवनभावन परमपावन सुदृढभावनमानतम् ।
शशिकलाञ्छितमुकुटलाञ्छित विफलवाञ्छितमाकुलं
चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ ५॥
 
हे हर । कथंभूत । समदं नन्दनं मदनं मर्दयतीति । अन्यच्च शशिकलया आञ्छितं
च तन्मुकुटं तेन लाञ्छित । भुवनानि भावयतीति भुवनभावन । परमश्चासौ पावनश्च
परमपावनस्तस्यामन्त्रणम् । त्वं जगद्धरं चतुरमुद्धर । कीदृशम् । दुरितस्य तर्दनं न्यक्का-
रस्तत्र लोलुभम् । अन्यच विफलं वाञ्छितमभिप्रेतं यस्य तम् । अन्यच्चाकुलम् । अन्यच्च
सुनु दृढा भावना यस्य तम् । आनतम् ॥
 
जगदनुग्रहमहितविग्रह कृतपरिग्रहसग्रहं
 
त्रिपुरशासन शबलवासनमसदुपासनलालसम् ।
घनचमत्कृतिकृतनमस्कृतिमुचित सत्कृतिसस्पृहं
 
चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ ६ ॥
 
.१. 'सुखसुतादिकं' ख.
 
Digitized by Google