This page has not been fully proofread.

२६
 
काव्यमाला ।
 
येनोपदिष्टमनपायमुपायमाध्य
स्वर्गापवर्गविभवैर्विभवो भवन्ति ।
देवः स वः सकलकर्मफलोपलम्भ-
विस्रम्भभूमिरभिवाञ्छितसिद्धयेऽस्तु ॥ ११ ॥
 
-
 
येनोपदिष्टमिति । सकलं यत्कर्म शुभाशुभं तस्य यत्फलं तस्योपलम्भः प्राप्तिः तस्य
विसम्भभूमिराश्वासनस्थानम् । आरोपः । स देवो वः अभिवाञ्छितसिद्धयेऽस्तु । स
क इत्याह - येन विभुना उपदिष्टम् । कृपया दृष्टिपातं विधाय दैशिकमुखेनेति शेषः ।
उपदिष्टमनपायं निर्नाशं श्रीस्वच्छन्दतन्त्रराजादिष्वागमशास्त्रेषु श्रीशिवभट्टारकोक्तं
आप्य प्राप्य । भक्ता इति शेषः । स्वर्ग: त्रिदिवः । अपवर्गो निःश्रेयसम् । विभवः अ
णिमाद्यष्टविभूतिरूपः । तैर्विभवो विभुत्वयुक्ताः । पूर्णा इत्यर्थः । भवन्ति । भक्ता इति ॥
मूलोज्झितेन कलिकाकलितेन ताप-
शान्तिक्षमेण नमतामविपल्लवेन ।
सद्यःफलेन सुभनोभिरुपासितेन
 
स्थाणुः श्रियेऽस्तु भवतां वपुषाढतेन ॥ १२ ॥
 
मूलोज्झितेनेति । प्रलयेऽपि तिष्ठति स्थाणुः । अद्भुतेनाश्चर्यकारिणा अनिर्वाच्येन
अन्यदेवतागणातिरिक्तेन च वपुषा उपलक्षितः भवतां श्रियेऽस्तु । अथ च अद्भुतेना-
श्रर्यकारिणा वपुषा स्थाणुः वृक्षच्छेदोऽपि । 'तिष्ठति स्थाणुः । मुण्ड इति ख्यातः' इति
रायमुकुट्याम् । अद्भुतः स्थाणुः श्रीशिवभट्टारकः वः श्रियेऽस्तु । द्वयोरपि वपुषो विशि-
नष्टि—–शंभुपक्षे वपुषा कीदृशेन । मूलोज्झितेन मूलमादिकारणं तेनोज्झितं तेन । तस्यैव
सर्वेषां ब्रह्मादीनामादिकारणत्वात् । तथा कलैव कलिका चन्द्रकला तया कलितेन
शोभितेन । तथा तापशान्तिः आध्यात्मिकाधिभौतिकाधिदैविकाख्यतापत्रयोपशान्तिः
तस्यां क्षमेण । केषाम् । नमतां भक्तिप्रहाणाम् । तथा अविपल्लवेन । अविद्यमानो
विपदो विपत्तेर्लवो यस्य तत् । अणिमाद्यष्टविधभूतीनामपि दासीत्वात्तद्वपुषः । पुनः
किंभूतेन । सद्यस्तत्क्षणमेव प्रणत्यैव शुभफलदायिना । पुनः सुमनोभिर्देवैः यद्वा पण्डितै-
रुपासितेन पूजितेन । वृक्षच्छेदोऽपि स्थाणुना ( वपुषा) अद्भुतेनेति विशिष्टि - स्था-
णुना ( वपुषा) किंभूतेन । मूलोज्झितेन मूलं वृक्षमूलं तेनोज्झितेन । छिन्नशाखो हि तरु:-
स्थाणु समूल एव । नहि निर्मूलो भवतीत्यद्भुतत्वम् । एवं कलिकाभिः कोरकैः कलि-
तेन शोभितेन । स हि विकलिको भवति । तथा नमतामुपनमतां जनानां तापस्य
मरुभ्रमणायस्य शान्तौ क्षमते । नहि स्थाणुस्तापोपशान्तिक्षमः । तथा विगताः पल्लवा
यस्य तद्विपल्लवम् । न विपल्लवमविपल्लवम् । तेन । किं तु पल्लवसहितेनेत्यर्थः । एतद-
Digitized by Google