This page has been fully proofread once and needs a second look.

३९४
 
काव्यमाला ।
 
असंभृतानि बहुविधानि यान्यौषधानि तेषां साधनं निमित्तं निरौषधं रसायनमकृ-

त्रिमरसं सहजपरमानन्दरसं स्तुतिरसायनमयं मे मम शरणागतस्य इदमुपायनं ढौकनकं

गृहाण अनुगृहाण प्रसादं कुरु । तथा परमो यो दाहो भवमरुभ्रमणजस्तेन या रुजा

तन्
निवारकं वरमभिलषितमुदाहर कथय । कया । वरमुदा वरा उत्कृष्टा चासौ मुत्परमान

न्दरूपा तया परमप्रीत्या । हे हर, पीयूषशीकरशीतलं पादपद्मं मे मम मूर्ध्नि वितर देहि ॥
 

 
इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपश्ञ्चिकया समेतं

काश्मीरकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य

स्तुतिकुसुमाञ्जलौ नतोपदेशस्तोत्रमेकत्रिंशम् ॥
 

 
द्वात्रिंशं स्तोत्रम् ।
 

 
अथातः शरणागतोद्धरणाख्यं द्वात्रिंशं स्तोत्रमारभमाण आह-

 
भवमरुभ्रमविषमसंभ्रमसमुदितक्लमविक्लवं

कुलिशकर्कशहृदयदुर्जनकृतपराभवविप्लवम् ।

अतिभयंकररविजकिंकरविकृतहुंकृतिकातरं
 

चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ १॥
 

 
हे हर, त्वं जगद्धरमुद्धर। भवार्णवादित्यर्थः । कथम् । चतुरं शीघ्रम् । अन्यच्चाशरणं न

विद्यमानं शरणं रक्षिता यस्य तम् । अन्यच्च शरणागतं शरणाय रक्षणायागतम् । यद्वा

शरणं रक्षितारमागतम् । अन्यच्च भव एव मरुस्तत्र भ्रमस्तेन विषमश्वासौ संभ्रमस्नास-

स्त्वरा वा तस्मात्समुदित उत्पन्नश्वाचासौ क्लमस्तेन विक्लवो दोनस्तम् । अन्यच्च कुलिशव-

स्कर्कशं हृदयं येषां तथाविधाश्च ते दुर्जनास्तैः कृतः पराभवो विप्लवो यस्य । अवमान-

रूप उपन्प्लव इत्यर्थः । अन्यच्चातिशयेन भयंकरश्वासौ रविजकिकिंकरो यमभटस्तस्य विकृ

तहुंकृत्या कातरम् ॥
 

 
कृतनिकेतनमकरकेतनदलितचेतनवेतनं
 

ललितलोचनवरवधूजनवचनतर्जनभाजनम् ।

गुणलवोद्गतगुरुमदज्वरजनिततीव्ररुजातुरं
 

चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ २ ॥
 

 
हे हर, त्वं जगद्धरं चतुरमुद्धर । जगद्धरं कीदृशम् । कृतं निकेतनं येन तथाविध

श्चासौ मकरकेतनस्तेन दलितं चेतनमेव वेतनं यस्य सः । अन्यच्च ललितलोचन
श्वासौ मकरकेतनस्तेन दलितं चेतनमेव वेत
वधूजनस्तस्य वचनानि तैस्तर्ज
नं यस्य सःतिरस्कारस्तस्य भाजनम् । अन्यच्च ललितलोचन श्वासौ
वधूजनस्तस्य वचनानि तैस्तर्जनं तिरस्कारस्तस्य भाजनम् । अन्यच्च
गुणलवेनोद्गतो

गुरुश्चासौ मदज्वरस्तेन जनिता चासौ तीव्रा रुजा तथा आतुरम् ॥
 
Digitized by Google