This page has not been fully proofread.

३१ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
३९३
 
मण्डनं तेन मण्डितः शोभितस्तं श्रीशंभुं यूयं भजत । किं कर्तुम् । हृदयं मनोऽभयं विग-
तभवोदधिभयमीहितुं कातुम् । किंभूतं हृदयम् । उन्मदो यो मदन एव दुर्नृपस्तेन
दण्डितम् । श्रीशंभुं कम् । दुस्तरं यहुरितं स एव वारिधिर्महार्णवस्तस्य तरस्तरणं पार-
गमनं तत्र तरण्डः प्लवस्तम् । किंभूतं च तरण्डम् । अखण्डितमदलितम् ॥
जितसुधाकरगिरिसुताकरसरसिजादरलालितं
नतपुरंदररुचिरशेखरकुसुमकेसररञ्जितम् ।
द्रुहिणमाधवकुमुदबान्धवकमलिनीधवसेवितं
 
वितर मूर्धनि चरणपङ्कजममृतशीकरशीतलम् ॥ २८ ॥
जितः सुधाकरश्चन्द्रो याभ्यां तादृशौ यौ गिरिसुताकरौ पार्वतीपाणी ताभ्यामादरेण
लालितं कृतोद्वर्तनम् । तथा नतो नम्रो यः पुरंदरः शक्रस्तस्य रुचिरशेखरो रम्यमौ -
लिस्तत्र कुसुमानि पारिजातादिकल्पद्रुमकुसुमानि तेषां केसरैः किंजल्कै रञ्जितम् ।
तथा द्रुहिणो ब्रह्मा च माधवो विष्णुश्च कुमुदबान्धवश्चन्द्रश्च कमलिनीधवः पद्मिनी-
कान्तः सूर्यश्च तैः सेवितस्तमीदृशं हे भगवन्, त्वममृतशीकरवच्छीतलं चरणपङ्कजं निजं
मूर्धनि अर्थान्मम वितर देहि ॥
 
अवटमज्जनजनिततंर्जनवृजिनभञ्जनसौधनं
 
कृतनमज्जनहृदयरञ्जनचिरनिरञ्जनपूजनम् ।
त्रिपुरमारणदुरितदारणदरनिवारणकारणं
 
वितरमूर्धनि चरणपङ्कजममृतशीकरशीतलम् ॥ २९ ॥
 
अवटे अकार्यकरणरूपे गर्ते यन्मजनं ब्रुडनं तेन जनितं तर्जनं त्रासो येन तादृशं
यदृजिनं पातकं तस्य भञ्जने खण्डशः करणे साधनं हेतुभूतम् । तथा कृतं नमजनस्य
भक्तिप्रहजनस्य हृदयरञ्जनं मनोरञ्जनं येन तत्तादृशं चिरं निरञ्जनं निर्मायं निर्व्याजं
पूजनं यस्य तत्तादृशम् । त्रिपुरमारणे त्रिपुरासुरस्य दाहे दुरितस्य त्रिविधस्य वाङ्मनः-
कायविहितस्य दारणे खण्डने तथा दरस्य भवाम्बुधित्रासस्य यन्निवारणं तत्र कारणं
हेतुभूतं पीयूषशीकरशीतलं पादपद्मं मम शिरसि वितर देहि ॥
अस्य स्तोत्रस्योपसंहारश्लोकमाह
-
इदमकृत्रिमरसमसंभृतबहुविधौषधसाधनं
स्तुतिरसायनमयमुपायनमनुगृहाण गृहाण मे ।
वरमुदाहर वरमुदा हर परमदाहरुजाहरं
 
वितर मूर्धनि चरणपङ्कजममृतशेखरशीतलम् ॥ ३० ॥
 
१. 'सजन' ख. २. 'कारणं' क.
 
Digitized by Google