This page has been fully proofread once and needs a second look.

काव्यमाला ।
 
सूर्येन्द्वग्नयो नेत्रेषु यस्य तं त्रिनेत्रम् । तथा पदं चरणं करः पाणिः कचभरो जटाजू.
-
टश्च तत्र धृतः सितकिरणश्चन्द्रो येन स तादृशम् । चरणयुगले चन्द्रस्य प्रणामपरत्वा-

त्
स्थितिः । तथा विघटितं दूरीकृतं नतजनस्य घनतममतिशयेन सान्द्रं तमो मोहान्धका-

ररूपं येन स तादृशं दीनदयालुं पुरारिं प्रणमत ॥
 

 
अविरलजलभरसुरसरिदुदय-

त्सरसिजभरनिभधृतनरशिरसम् ।

भवदवहुतवहविदलनजलदं
 
३९२
 

प्रणमत पुरहरमशरणशरणम् ॥ २५ ॥
 

 
अविरलो महान् जलभरो यस्यास्तादृशी या सुरसरित्स्वर्गङ्गा तस्या उदयन्योऽसौ

सरसिजभरः अनौत्रौचित्यात्सितोत्पलसमूहस्तेन निभानि धृतानि नराणां पुरुषाणां महाप्र-

लयेषु संहारितानां ब्रह्मादीनां शिरांसि मुण्डानि येन स तादृशम् । भवः संसार एव द
-
हुतवही दवाग्निस्तस्य विदलने प्रशमने जलदो मेघस्तं दीनदयालुं पुरहरं प्रणमत ।

 
जहत कल्पितकलुषलोचनतिमिरभञ्जनमञ्जनं
 

 

त्यजत दुःस्थितहृदयनन्दनमलयचन्दनरञ्जनम्

भजत निर्जितविषमवैभवभवमहार्णवमज्जनं
 

क्षितिधे[^१]धराधिपदुहितृवल्लभचरणपङ्कजपूजनम् ॥ २६ ॥
 

 
भो बालिशा जना इति शेषः । हे मूढजनाः, कल्पितं कलुषलोचनानां क्लिन्नाक्षाणां

स्वल्पावबोधानां तिमिरभञ्जनं मोहतमो नाशो येन तत्तादृशमञ्जनं किंचिदपूर्वमञ्जनं ति-

मिरापहं सौवीराञ्जनादि यूयं जहत दूरीकुरुध्वम् । तथा दुस्थितं दुःस्थं यद्धृदयं तस्य

नन्दनमानन्ददायि यन्मलयचन्दनं तेन रञ्जनमनुलेपनं त्यजत । तर्हि अतिकलुषदृक्प्र-

सादनं हृदयपरमानन्ददायिनं कं भजाम इत्याशङ्क्याह – भजतेति । यूयं क्षितिधरा-

धिपदुहितृवल्लभचरणपङ्कजपूजनं हिमाचलपुत्रीनाथचरणकमलार्चनं भजत । तरिकत्किंभू-

तम् । निर्जितं विषमवैभवस्य भवाम्बुधेर्मज्जनं येन तत् । भवाम्बुधेरुत्तरणविधायीत्यर्थः ॥

 
सकलकलिमलपटलपन्नगनिगडखण्डनपण्डितं
 

 

विशदशशधरशकलशोभितमुकुटमण्डनमण्डितम्

हृदयमीहितुमभयमुन्मदमदनदुर्नृपदण्डितं
 

भजत दुस्तरदुरितवारिधि[^२]तरतरण्डमखण्डितम् ॥ २७ ॥
 

 
सकलं यत्कलौ तुरीययुगे मलपटलं तदेव पन्नगरूपश्चासौ निगडस्तस्य खण्डने दलने

पण्डितो दक्षस्तम् । विशदं यच्छशधरशकलं चन्द्रशकलं तेन शोभितं यन्मुकुटरूपं

 
[^
]. 'क्षितिधरापति पुत्रिकापतिपादपङ्कजपूजनम् ख.
[^
]. 'वरतरण्ड' ख.
 
Digitized by Google