This page has not been fully proofread.

काव्यमाला ।
 
सूर्येन्द्वमयो नेत्रेषु यस्य तं त्रिनेत्रम् । तथा पदं चरणं करः पाणिः कचभरो जटाजू.
टश्च तत्र धृतः सितकिरणचन्द्रो येन स तादृशम् । चरणयुगले चन्द्रस्य प्रणामपरत्वा-
स्थितिः । तथा विघटितं दूरीकृतं नतजनस्य घनतममतिशयेन सान्द्रं तमो मोहान्धका-
ररूपं येन स तादृशं दीनदयालुं पुरारिं प्रणमत ॥
 
अविरलजलभरसुरसरिदुदय-
त्सरसिजभरनिभधृतनरशिरसम् ।
भवदवहुतवहविदलनजलदं
 
३९२
 
प्रणमत पुरहरमशरणशरणम् ॥ २५ ॥
 
अविरलो महान् जलभरो यस्यास्तादृशी या सुरसरित्स्वर्गङ्गा तस्या उदयन्योऽसौ
सरसिजभरः अनौचित्यात्सितोत्पलसमूहस्तेन निभानि धृतानि नराणां पुरुषाणां महाप्र-
लयेषु संहारितानां ब्रह्मादीनां शिरांसि मुण्डानि येन स तादृशम् । भवः संसार एव द
बहुतवही दवानिस्तस्य विदलने प्रशमने जलदो मेघस्तं दीनदयालुं पुरहरं प्रणमत ।
जहत कल्पितकलुषलोचनतिमिरभञ्जनमञ्जनं
 

 
त्यजत दुःस्थितहृदयनन्दनमलयचन्दनरञ्जनम्
भजत निर्जितविषमवैभवभवमहार्णवमज्जनं
 
क्षितिधेराधिपदुहितृवल्लभचरणपङ्कजपूजनम् ॥ २६ ॥
 
भो बालिशा जना इति शेषः । हे मूढजनाः, कल्पितं कलुषलोचनानां क्लिन्नाक्षाणां
स्वल्पावबोधानां तिमिरभञ्जनं मोहतमो नाशो येन तत्तादृशमञ्जनं किंचिदपूर्वमञ्जनं ति-
मिरापहं सौवीराञ्जनादि यूयं जहत दूरीकुरुध्वम् । तथा दुस्थितं दुःस्थं यद्धृदयं तस्य
नन्दनमानन्ददायि यन्मलयचन्दनं तेन रञ्जनमनुलेपनं त्यजत । तर्हि अतिकलुषदृक्प्र-
सादनं हृदयपरमानन्ददायिनं कं भजाम इत्याशङ्कयाह – भजतेति । यूयं क्षितिधरा-
धिपदुहितृवल्लभचरणपङ्कजपूजनं हिमाचलपुत्रीनाथचरणकमलार्चनं भजत । तरिकभू-
तम् । निर्जितं विषमवैभवस्य भवाम्बुधेर्मजनं येन तत् । भवाम्बुधेरुत्तरणविधायीत्यर्थः ॥
सकलकलिमलपटलपन्नगनिगडखण्डनपण्डितं
 

 
विशदशशधरशकलशोभितमुकुटमण्डनमण्डितम्
हृदयमीहितुमभयमुन्मदमदनदुर्नृपदण्डितं
 
भजत दुस्तरदुरितवारिधितरतरण्डमखण्डितम् ॥ २७ ॥
 
सकलं यत्कलौ तुरीययुगे मलपटलं तदेव पन्नगरूपश्चासौ निगडस्तस्य खण्डने दलने
पण्डितो दक्षस्तम् । विशदं यच्छशधरशकलं चन्द्रशकलं तेन शोभितं यन्मुकुटरूपं
१. 'क्षितिधरापति पुत्रिकापतिपादपङ्कजपूजनम् ख. २. 'वरतरण्ड' ख.
 
Digitized by Google