This page has been fully proofread once and needs a second look.

३१ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
सितकरकरभरधवलितमुकुटं
 

प्रणमत पुरहरमशरणशरणम् ॥ २१ ॥
 

 
अविरतं नतिपरा ये सुरवरा ब्रह्माद्यास्तेषां शिखराणि मौलयस्तेषु प्रणिहित: प्र-

क्षिप्तो यो मणिगणस्तेन मसृणितौ रञ्जितौ चरणौ यस्य स तादृशस्तम् । तथा चन्द्र-

किरणसमूहधवलितमौलिम् । अशरणानामप्रतिपालकानां शरणं पालकं पुरहरं श्री-

शंभुं प्रणमत ॥
 

 
भवभवपरिभवधुतविधुरधिया-

मधिगतशमदमनि[^१]यमितमनसाम् ।
 

अभिमतवितरणपरिणतकरुणं
 
३९१
 

प्रणमत पुरहरमशरणशरणम् ॥ २२ ॥
 

 
भवात्संसाराद्भव उत्पत्तिर्यस्यासौ यः परिभवस्तेन धुता कम्पिता अत एव विधुरा

व्याकुला धीर्बुद्धिर्येषां तादृशानां जनानाम् । अत एव शमश्च दमश्च नियमितेनियमश्च

तानि । (स्त्रियां) भावे क्तः । अधिगतानि प्राप्तानि शमदमनियमितानि येन तत्तादृशं

मनो येषां ते तादृशानां नतलोकानामभिमतवितरणे परिपूर्णा करुणा दया यस्य स ता-

दृशमशरणशरणं पुरारिं प्रणमत ॥
 

 
तनुतृणगणनिभमनसिजशमन-

प्रशमनपरिचितहुतवहर्मेम[^२]हितम् ।
पै

[^३]प
रहितकृतमतिमतिमृदुहृदयं
 

प्रणमत पुरहरमशरणशरणम् ॥ २३ ॥
 

 
तनुतृणगणनिभौ यौ मनसिजशमनौ कामयमौ तयोः प्रशमने दाहे परिचितः सुशि-

क्षितो यो हुतवहस्तृतीय

नेत्राग्निस्तेन महितं पूजितम् । 'मह पूजायाम्' धातुः । तथा प

रहिते भवाम्भोधिमग्नलोकोद्धरणरूपहिते कृता मतिर्बुद्धिर्येन स तादृशस्तम् । अतिशयेन

मृदु कृपामृतार्द्रेरं हृदयं यस्य स तादृशस्तं दीनदयालुं पुरारिं भजत ।
 

 
दिनकरहिमकरहुतवहनयनं

पदकरकचभरधृतसितकिरणम् ।
 

विघटितनत जनघनतमतमसं
 

प्रणमत पुरहरमशरणशरणम् ॥ २४ ॥
 

 
[^
]. 'नियमन' ख.
[^
]. 'सहितम्' ख.
[^
]. 'परिहित' क-ख.
 
Digitized by Google