This page has not been fully proofread.

३१ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
सितकरकरभरधवलितमुकुटं
 
प्रणमत पुरहरमशरणशरणम् ॥ २१ ॥
 
अविरतं नतिपरा ये सुरवरा ब्रह्माद्यास्तेषां शिखराणि मौलयस्तेषु प्रणिहित: प्र-
क्षिप्तो यो मणिगणस्तेन मसृणितौ रञ्जितौ चरणौ यस्य स तादृशस्तम् । तथा चन्द्र-
किरणसमूहधवलितमौलिम् । अशरणानामप्रतिपालकानां शरणं पालकं पुरहरं श्री-
शंभुं प्रणमत ॥
 
भवभवपरिभवधुतविधुरधिया-
मधिगतशमदमनियमितमनसाम् ।
 
अभिमतवितरणपरिणतकरुणं
 
३९१
 
प्रणमत पुरहरमशरणशरणम् ॥ २२ ॥
 
भवात्संसाराद्भव उत्पत्तिर्यस्यासौ यः परिभवस्तेन धुता कम्पिता अत एव विधुरा
व्याकुला धीर्बुद्धिर्येषां तादृशानां जनानाम् । अत एव शमश्च दमश्च नियमितेनियमश्च
तानि । (स्त्रियां) भावे क्तः । अधिगतानि प्राप्तानि शमदमनियमितानि येन तत्तादृशं
मनो येषां ते तादृशानां नतलोकानामभिमतवितरणे परिपूर्णा करुणा दया यस्य स ता-
दृशमशरणशरणं पुरारिं प्रणमत ॥
 
तनुतृणगणनिभमनसिजशमन-
प्रशमनपरिचितहुतवहर्मेहितम् ।
पैरहितकृतमतिमतिमृदुहृदयं
 
प्रणमत पुरहरमशरणशरणम् ॥ २३ ॥
 
तनुतृणगणनिभौ यौ मनसिजशमनौ कामयमौ तयोः प्रशमने दाहे परिचितः सुशि-
क्षितो यो हुतवहस्तृतीय
नेत्राग्निस्तेन महितं पूजितम् । 'मह पूजायाम्' धातुः । तथा प
रहिते भवाम्भोधिममलोकोद्धरणरूपहिते कृता मतिर्बुद्धिर्येन स तादृशस्तम् । अतिशयेन
मृदु कृपामृतार्द्रे हृदयं यस्य स तादृशस्तं दीनदयालुं पुरारिं भजत ।
 
दिनकरहिमकरहुतवहनयनं
पदकरकचभरधृतसितकिरणम् ।
 
विघटितनत जनघनतमतमसं
 
प्रणमत पुरहरमशरणशरणम् ॥ २४ ॥
 
१. 'नियमन' ख. २. 'सहितम्' ख. ३. 'परिहित' क-ख.
 
Digitized by Google