This page has been fully proofread once and needs a second look.

३९०
 
काव्यमाला ।
 
विराजते इति ध्वजधामविराजी तादृशो महान् धवल: श्वेतवृषभो यस्य स तादृशम् ।

'धवलक्षुण्णां पदवीं कासरोऽपि क्षिप्रमन्वेति' इति कविप्रयोगाद्धवलोऽपि वृषवाचकः ।

एवंभूतमद्रिसुताधवलम् धवः पतिरेव धवलः । स्वार्थे लः । तं पार्वतीप्राणनाथं विभुं

यूयं भजत ॥
 

 
प्रभया परिभूतदलद्गवलं गलमङ्गदरत्नशिखाशवलम् ।
 

दधतं विषकॢप्तमहाकवलं भजत प्रभुमद्रिसुताधवलम् ॥ १७ ॥
 

 
प्रभया कान्त्या परिभूतं जितं दलद्भमंग्नं गवलं माहिषं शृङ्गं येन स तादृशम् । अङ्ग-

दस्य । केयूरभूतस्य वासुकेरित्यर्थात् । या रत्नशिखा रत्नज्वालास्ताभिः शवलस्तं ता-

दृशं गलं कण्ठं बिभ्रतम् । तथा विषस्य कालकूटाख्यविषविशेषस्य कृक्लृप्तं विहितं महत्क-

वलं ग्रासो येन स तादृशस्तं पार्वतीनाथं विभुं भजत ॥
 

 
शिखरं धुद्युनदीलहरीतरलं गलमूलमुपोढमहागरलम् ।
 

दधतं हृदयं च सुधासरलं भजत प्रभुमद्रिसुताधवलम् ॥ १८ ॥
 

 
द्
युनद्याः स्वर्गङ्गाया लहरीभिस्तरलस्तादृशं शिखरं मौलिं बिभ्रतम् । तथा उपोढं

धारितं महद्गरलं कालकूटाख्यविषविशेषो येन तत्तादृशं गलमूलं कण्ठस्थानं दधतम् ।

तथा हृदयं च सुधावत्सरलं निर्मलं कृपामृतरसेन सरलस्वभावं दधतं पार्वतीपतिं

विभुं भजत ॥
 

 
अपनीतकुकर्मकलङ्कमलं नतलोकवितीर्णमहाकमलम् ।
 
दे

[^१]द
दतं शुभसिद्धिविपाकमलं भजत प्रभुमद्रिसुताधवलम् ॥ १९ ॥
 

 
अपनीतो भक्तिप्रह्जनस्य कुकर्मरूपकलङ्कस्य मलः कुकर्मविपाको येन स तादृशम् ।

तथा नतलोकाय वितीर्णा दत्ता महती कमला लक्ष्मीर्येन स तादृशम् । तथा शुभायाः

सिद्धयोऽष्टावणिमाद्यास्तासां विपाकस्तं ददतं वितरन्तं भक्तजनाय पार्वतीपतिं

विभुं भजत ॥
 
दे

 
[^२]द
दतं वचनं घनहासकलं नमतां दलयन्तमघं सकलम् ।
 

भजतां च दिशन्तमभीष्टफलं भजत प्रभुमद्रिसुताधवलम् ॥ २० ॥

 
घनो यो हासस्तेन कलं मधुरं वचनमभयवाक्यं ददतं वितरन्तम् । तथा नमतां भ

क्तिप्रह्लावाणां सकलं वाङ्मनः कर्मभिः कृतमघं पापं दलयन्तं खण्डशः कुर्वन्तम् । तथा

भजतां सेवकानामभीष्टफलमीप्सितफलं च दिशन्तं वितरन्तं शंभुं विभुं भजत ॥

 
अविरतनतिपरसुरवरशिखर-

प्रणिहितमणिगणमसृणितचरणम् ।
 

 
[^
]. 'दधतं' क ख.
[^
]. 'दधतं' क-ख.
 
Digitized by Google