This page has not been fully proofread.

३९०
 
काव्यमाला ।
 
विराजते इति ध्वजधामविराजी तादृशो महान् धवल: श्वेतवृषभो यस्य स तादृशम् ।
'धवलक्षुण्णां पदवीं कासरोऽपि क्षिप्रमन्वेति' इति कविप्रयोगाद्धवलोऽपि वृषवाचकः ।
एवंभूतमद्रिसुताधवलम् धवः पतिरेव धवलः । स्वार्थे लः । तं पार्वतीप्राणनाथं विभुं
यूयं भजत ॥
 
प्रभया परिभूतदलद्गवलं गलमङ्गदरत्नशिखाशवलम् ।
 
दधतं विषकॢप्तमहाकवलं भजत प्रभुमद्रिसुताधवलम् ॥ १७ ॥
 
प्रभया कान्त्या परिभूतं जितं दलद्भमं गवलं माहिषं शृङ्गं येन स तादृशम् । अङ्ग-
दस्य । केयूरभूतस्य वासुकेरित्यर्थात् । या रत्नशिखा रत्नज्वालास्ताभिः शवलस्तं ता-
दृशं गलं कण्ठं बिभ्रतम् । तथा विषस्य कालकूटाख्यविषविशेषस्य कृप्तं विहितं महत्क-
वलं ग्रासो येन स तादृशस्तं पार्वतीनाथं विभुं भजत ॥
 
शिखरं धुनदीलहरीतरलं गलमूलमुपोढमहागरलम् ।
 
दधतं हृदयं च सुधासरलं भजत प्रभुमद्रिसुताधवलम् ॥ १८ ॥
 
युनद्याः स्वर्गङ्गाया लहरीभिस्तरलस्तादृशं शिखरं मौलिं बिभ्रतम् । तथा उपोढं
धारितं महद्गरलं कालकूटाख्यविषविशेषो येन तत्तादृशं गलमूलं कण्ठस्थानं दधतम् ।
तथा हृदयं च सुधावत्सरलं निर्मलं कृपामृतरसेन सरलस्वभावं दधतं पार्वतीपतिं
विभुं भजत ॥
 
अपनीतकुकर्मकलङ्कमलं नतलोकवितीर्णमहाकमलम् ।
 
देदतं शुभसिद्धिविपाकमलं भजत प्रभुमद्रिसुताधवलम् ॥ १९ ॥
 
अपनीतो भक्तिप्रह्णजनस्य कुकर्मरूपकलङ्कस्य मलः कुकर्मविपाको येन स तादृशम् ।
तथा नतलोकाय वितीर्णा दत्ता महती कमला लक्ष्मीर्येन स तादृशम् । तथा शुभायाः
सिद्धयोऽष्टावणिमाद्यास्तासां विपाकस्तं ददतं वितरन्तं भक्तजनाय पार्वतीपतिं
विभुं भजत ॥
 
देदतं वचनं घनहासकलं नमतां दलयन्तमघं सकलम् ।
 
भजतां च दिशन्तमभीष्टफलं भजत प्रभुमद्रिसुताधवलम् ॥ २० ॥
घनो यो हासस्तेन कलं मधुरं वचनमभयवाक्यं ददतं वितरन्तम् । तथा नमतां भ
क्तिप्रह्लाणां सकलं वाङ्मनः कर्मभिः कृतमघं पापं दलयन्तं खण्डशः कुर्वन्तम् । तथा
भजतां सेवकानामभीष्टफलमीप्सितफलं च दिशन्तं वितरन्तं शंभुं विभुं भजत ॥
अविरतनतिपरसुरवरशिखर-
प्रणिहितमणिगणमसृणितचरणम् ।
 
१. 'दधतं' क ख. २. 'दधतं' क-ख.
 
Digitized by Google