This page has been fully proofread once and needs a second look.

स्तुतिकुसुमाञ्जलिः ।
 
नरमुखकल्पितशेखरमालं
 
नतजनजम्भितमोहतमालम् ।
 

नयनशिखाशतशातितकालं श्रयत विभुं हतकल्मषजालम् ॥ १२ ॥
 

 
'नृ नये' । नृणातीति नरः । नरा अत्र नेतारो ब्रह्मादयस्तेषां महाप्रलयेषु संहारि-

तानां मुखैर्मुण्डै: कल्पिता शेखरमाला मौलिमाला येन स तादृशम् । ..............तथा

नयने तृतीयनेत्रे यान्यग्निशिखाशतानि तैः शातितो दग्धः कालो येन स तादृशस्तं

विभुं श्रयत ॥
 
३१ स्तोत्रम्]
 
.
 
३८९
 

 
विषमविषाग्निशिखाविकरालं फणिपतिहारमतीव विशालम् ।
 
.
 

गलभुवि बिभ्रतमुग्रसिरालं श्रयत विभुं हतकल्मषजालम् ॥ १३ ॥
 

 
विषमोऽत्युग्रो यो विषरूपाग्निस्तस्य शिखाभिर्ज्वालाभिर्विकरालस्तम् । तथा अतीव

विशालं विस्तीर्णं फणिपतिहारं वासुकिहारं गलभुवि कण्ठभूमौ बिभ्रतं वहन्तम् । तथा

निजांशगणाधीशभृङ्गरिटिरूपेणोप्ग्रसिरालं उग्राः सिरा विद्यन्ते यस्य स तादृशम् । अ
-
तिकृशत्वात् । विभुं हतपापजालं श्रयत ॥
 

 
विदलयितुं यमृते भवतालं त्रिभुवनसीमनि कश्चन नालम् ।

तममलमानसवासमरालं श्रयत विभुं हतकल्मषजालम् ॥ १४ ॥
 

 
अमलं निर्मलं यन्मानसं चित्तं तदेव मानसं मानसाख्यं सरस्तस्मिन् वासो यस्य

स तादृशो मरालो हंसस्तम् । आरोपेण योजना । हंसभूतं तं हतपापजालं विभुं भजत ।

तं विभुं कमित्याह – विदलयितुमिति । यं विभुं श्रीशंभुमृते यं विना त्रिभुवनसीम्नि
-
त्रिजगन्मर्यादायां भवतालं भवः संसार एवातिदीर्घत्वात्तालस्तालवृक्षस्तं विदलयितुं

कश्चन कोऽप्यलं समर्थो नास्ति ।
 
-
 

 
कमलपरागपिशङ्गजटालं जलधिसमर्पणतर्पितबालम् ।
 

भवभटभङ्गमहाकरवालं श्रयत विभुं हतकल्मषजालम् ॥ १५ ॥
 

 
कमलानां पद्मानां यः परागः किंजल्कस्तद्वत्पिशङ्गा जटा विद्यन्ते यस्य स तादृशः ।

स्वार्थे लः । तथा जलधेः क्षीरोदघेः समर्पणेन दानेन तर्पितो बाल उपमन्युमुनिर्येन स

तादृशम् । तथा भवः संसार एव भटः शूरस्तस्य भङ्गे विधाघाते महान् करवाल: खड्मङ्गस्तं

हतपातकसमूहं शंभुं श्रयत ॥
 

 
अतिघस्मरभस्मरजोधवलं नतलोकसमर्पितबोधबलम् ।
 

ध्वजधामविराजिमहाधवलं भे[^१]भजत प्रभुमद्रिसुताधवलम् ॥ १६ ॥
 

 
अतिघस्मरमतिरूक्षं यद्भस्म तस्य रजसा धवलः श्वेतस्तम् । तथा नतलोकाय भ

क्तिप्रहृह्वजनाय समर्पितं बोधबलं ज्ञानप्रभावो येन स तादृशस्तम् । तथा ध्वजस्य स्थाने
 

 
[^
]. 'श्रयत' ख.
 
Digitized by Google