This page has not been fully proofread.

स्तुतिकुसुमाञ्जलिः ।
 
नरमुखकल्पितशेखरमालं
 
नतजनजम्भितमोहतमालम् ।
 
नयनशिखाशतशातितकालं श्रयत विभुं हतकल्मषजालम् ॥ १२ ॥
 
'नृ नये' । नृणातीति नरः । नरा अत्र नेतारो ब्रह्मादयस्तेषां महाप्रलयेषु संहारि-
तानां मुखैर्मुण्डै: कल्पिता शेखरमाला मौलिमाला येन स तादृशम् । ..............तथा
नयने तृतीयनेत्रे यान्यग्निशिखाशतानि तैः शातितो दग्धः कालो येन स तादृशस्तं
विभुं श्रयत ॥
 
३१ स्तोत्रम्]
 
.
 
३८९
 
विषमविषाग्निशिखाविकरालं फणिपतिहारमतीव विशालम् ।
 
.
 
• गलभुवि बिभ्रतमुग्रसिरालं श्रयत विभुं हतकल्मषजालम् ॥ १३ ॥
 
विषमोऽत्युग्रो यो विषरूपाग्निस्तस्य शिखाभिर्ज्वालाभिर्विकरालस्तम् । तथा अतीव
विशालं विस्तीर्ण फणिपतिहारं वासुकिहारं गलभुवि कण्ठभूमौ बिभ्रतं वहन्तम् । तथा
निजांशगणाधीशभृङ्गरिटिरूपेणोप्रसिरालं उग्राः सिरा विद्यन्ते यस्य स तादृशम् । अ
तिकृशत्वात् । विभुं हतपापजालं श्रयत ॥
 
विदलयितुं यमृते भवतालं त्रिभुवनसीमनि कश्चन नालम् ।
तममलमानसवासमरालं श्रयत विभुं हतकल्मषजालम् ॥ १४ ॥
 
अमलं निर्मलं यन्मानसं चित्तं तदेव मानसं मानसाख्यं सरस्तस्मिन् वासो यस्य
स तादृशो मरालो हंसस्तम् । आरोपेण योजना । हंसभूतं तं हतपापजालं विभुं भजत ।
तं विभुं कमित्याह – विदलयितुमिति । यं विभुं श्रीशंभुमृते यं विना त्रिभुवनसीम्नि
त्रिजगन्मर्यादायां भवतालं भवः संसार एवातिदीर्घत्वात्तालस्तालवृक्षस्तं विदलयितुं
कश्चन कोऽप्यलं समर्थो नास्ति ।
 
-
 
कमलपरागपिशङ्गजटालं जलधिसमर्पणतर्पितबालम् ।
 
भवभटभङ्गमहाकरवालं श्रयत विभुं हतकल्मषजालम् ॥ १५ ॥
 
कमलानां पद्मानां यः परागः किंजल्कस्तद्वत्पिशङ्गा जटा विद्यन्ते यस्य स तादृशः ।
स्वार्थे लः । तथा जलधेः क्षीरोदघेः समर्पणेन दानेन तर्पितो बाल उपमन्युमुनिर्येन स
तादृशम् । तथा भवः संसार एव भटः शूरस्तस्य भङ्गे विधाते महान् करवाल: खड्मस्तं
हतपातकसमूहं शंभुं श्रयत ॥
 
अतिघस्मरभस्मरजोधवलं नतलोकसमर्पितबोधबलम् ।
 
ध्वजधामविराजिमहाधवलं भेजत प्रभुमद्रिसुताधवलम् ॥ १६ ॥
 
अतिघस्मरमतिरूक्षं यद्भस्म तस्य रजसा धवलः श्वेतस्तम् । तथा नतलोकाय भ
क्तिप्रहृजनाय समर्पितं बोधबलं ज्ञानप्रभावो येन स तादृशस्तम् । तथा ध्वजस्य स्थाने
 
१. 'श्रयत' ख.
 
Digitized by Google