This page has not been fully proofread.

३८८
 
काव्यमाला ।
 
कृतघस्मरस्मरनिराकरणं कटुकालकूटकवलीकरणम् ।
 
व्रजत प्रपन्नजनताशरणं शरणं तुषारकिरणाभरणम् ॥ ७ ॥
 
कृतं घस्मरस्य त्रिजगत्क्षोभकस्य स्मरस्य निराकरणं येन स तादृशम् । तथा कटु
महोप्रं च तत्कालकूटं विषं तस्य कवलीकरणं भक्षकम् तथा प्रपन्नजनताशरणं चन्द्र-
मौलिं शरणं व्रजत ॥
 
मरुमेदिनीरचितसंचरणं त्रिदशेन्द्रशेखरसरच्चरणम् ।
 
व्रजत त्रिदुःखहरणस्मरणं शरणं तुषारकिरणाभरणम् ॥ ८ ॥
 
मरुमेदिन्यां निर्जलकान्तारभूमौ रचितं संचरणं येन स तादृशम् । तथा त्रिदशे-
न्द्राणां ब्रह्मादीनां शिखरेषु मौलिषु सरन्तौ गच्छन्तौ चरणौ यस्य स तादृशम् । तथा
त्रीण्याध्यात्मिकाधिदैविकाधिभौतिकानि यानि दुःखानि तेषां हरणं हारकं स्मरणं यस्य
स तादृशं चन्द्रमौलिं यूयं शरणं व्रजत ।
 
प्रणतं जनं जितजरामरणं रचयन्तमाप्तभवनिस्तरणम् ।
 
व्रजताहितत्रिपुरसंहरणं शरणं तुषारकिरणाभरणम् ॥ ९ ॥
 
जरामरणेत्युपलक्षणम् । जितजरामरणं तथा आप्तं भवात्संसारोदधेर्निस्तरणमुद्धारो येन
स तादृशं प्रणतं भक्तिप्रहं जनं रचयन्तं कुर्वन्तम् । तथा आहितं कृतं त्रिपुरस्य त्रिपु-
रासुरस्य संहरणं येन स तादृशं चन्द्रमौलिं शरणं व्रजत ॥
 
अवधूतमोहतिमिरावरणं करिकृत्तिकल्पितपैरावरणम् ।
 
व्रजत प्रकल्पितपुरेशरणं शरणं तुषारकिरणाभरणम् ॥ १० ॥
मोहोऽज्ञानमेव तिमिरं तद्रूपमावरणमवधूतं निराकृतं येन स तादृशम् । तथा करि-
कृत्तिर्हस्तिचर्मैव कल्पितं परमुत्कृष्टमावरणं परिधानं येन स तादृशम् । तथा प्रकल्पितो
विहितः पुरेशेन त्रिपुरासुरेण सह रणो युद्धं येन स तादृशं चन्द्रमौलिं शरणं व्रजत ॥
 
तरुणतमालमलीमसनालं ज्वलनशिखा पटलोज्ज्वलालम् ।
 
शिरसि लसत्परमेष्ठिकपालं श्रयत विभुं हतकल्मषजालम् ॥ ११ ॥
 
कालकूटकवलीकरणात्तरुणतमालवन्नूतनतमालकुसुमवन्मलीमसं नीलं नालं गलं यस्य
स तादृशम् । अग्निशिखानां पटलेन समूहेनोज्ज्वलं भालं ललाटं यस्य स तादृश
स्तम् । तथा मूर्ध्नि लसत्परमेष्ठिनो महाप्रलये कालाग्निरुद्ररूपेण संहारितस्य कपालं
यस्य स तादृशम् । तथा हतं कल्मषाणां पातकानां जालं समूहो येन स तादृशस्तं
विभुं श्रयत ॥
 
१. 'वरावरणम्' ख. २. 'सुरेश' ख.
 
Digitized by Google