This page has not been fully proofread.

३१ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
३८७
 
हे भक्तिप्रङ्खजना बुधाः सचेतनाः, समाधौ तदेकतानत्वे परममन्तरङ्गं तथा अनुत्त
रङ्गं अविद्यमाना उच्चैस्तरङ्गाश्चाञ्चल्यादयो यस्य तत् तादृशमनुत्तरङ्गं मनो निस्पन्दं वि
धाय भवभीतिभङ्गं संसाराम्बुधिनिस्तरेण भयनाशं विधातुं यूयं गिरिजाभुजंगं पार्वतीका-
मुकं श्रीशंभुं भजध्वं वाङ्मनःकायकर्मभिः सेवध्वम् । 'भुजंगः षिङ्गसर्पयोः' इति मङ्गः ॥
पाश्यावशेनेव महाविहंगं वल्गाबलेनेव महातुरंगम् ।
 
निरुध्य योगेन मनःप्लवंगं विभुं भजध्वं गिरिजाभुजंगम् ॥ २ ॥
 
यथा कश्चित्पाश्यात्रशेन पक्षिणां रोधनार्थ वालबन्धः पाश्या तद्वशेन महाविहंगं बृ-
हन्तं पक्षिणं रुणद्धि, यथा वल्गाबलेन वरं हयं रुणद्धि तथा योगेन यमनियमादिनाष्टा-
ङ्गेन मन एव प्लवंगो वानरस्तं निरुध्य श्रीशंभुं विभुं भजध्वम् ॥
 
मन्त्रौषधादिक्रियया भुजंगं यथा यथा वागुरया कुरङ्गम् ।
 
मनस्तथायम्य धियास्तसङ्गं विभुं भजध्वं गिरिजाभुजंगम् ॥ ३ ॥
 
यथा मन्त्रौषधा दिक्रियया भुजंगं सर्पमायच्छति गृह्णाति, आदिशब्देन मणय उ
च्यन्ते । तथा हि अपूर्वोऽयं मणिमन्त्रौषधीनां प्रभाव इत्युक्तत्वात् । यथा कश्चिद्वा
रया मृगबन्धिन्या कुरङ्गं मृगभेदमायच्छति । तथा धिया एकाग्रचित्तत्वरूपया अस्त-
सङ्गं अस्तः सङ्गो येन तन्मनश्चित्तमायम्य निरुध्य श्रीशंभुं विभुं भजध्वम् ॥
 
भित्त्वालिकं सभ्रुकुटीविभङ्गं यस्याग्निरुद्यत्रभसादनङ्गम् ।
ददाह तं मोहतमः पतङ्गं विभुं भजध्वं गिरिजाभुजंगम् ॥ ४ ॥
 
यस्येश्वरस्य सभ्रूभङ्गविच्छित्तिकं ललाटं भित्त्वा उद्यन्ननी रभसाद्वेगेनानङ्गं कामं
ददाह तं मोहान्धकारसूर्य विभुं शंभुं भजध्वम् ॥
 
वहन्तमुद्दामभुजङ्गमङ्गं जटाभरं निर्भरनाकगङ्गम् ।
 
विलोचनं चाग्निशिखापिशङ्गं विभुं भजध्वं गिरिजाभुजंगम् ॥ ५ ॥
उद्दामा भुजंगा यत्र तत् एवंविधमङ्गं वहन्तं धारयन्तम् । तथा निर्भरा समस्तगुण-
पूर्णा नाकगङ्गा मन्दाकिनी यस्मिन् स तादृशं जटाभरं कपर्दे वहन्तम्, तथा अनिशि
खाभिर्वह्निज्वालाभिः पिशङ्गं च लोचनं तृतीयं नेत्रं वहन्तं विभुं श्रीशंभुं भजध्वम् ॥
 
भवबन्धबद्धविधुरोद्धरणं फणिमण्डलज्वलदलंकरणम् ।
 
व्रजत क्षमाधरदरीशरणं शरणं तुषारकिरणाभरणम् ॥ ६ ॥
 
भवः संसार एव बन्ध आवरणं तेन बद्धा ये विधुरा व्याकुलाः संसारिणस्तानुद्धर-
तीति तादृशम् । तथा फणिनां वासुक्यादीनां मण्डलं समूह एव ज्वलदलंकरणं हारकं -
कणादि यस्य स तादृशम् । तथा क्षमाधरदरीशरणं हिमालयगुहानिवासिनं तुषारकिर-
णाभरणं चन्द्रमौलिं शरणं प्रतिपालकं व्रजत यूयं भक्तिप्रह्वाः । 'शरणं गृहरक्षित्रो: '
 
इत्यमरः ॥
 
Digitized by Google