This page has not been fully proofread.

काव्यमाला ।
 
कान्ता कान्तारमध्ये सरिदिव सकुलक्ष्माधरायां धरायां
याता या तारतम्यं क्व न विमलमतिप्रेक्षणेन क्षणेन ।
साभासा भारतीयं तनुरिव तरणेरन्धकारेऽन्धकारेः
 
स्तुत्या स्तुत्या बुधानां मदयतु हृदयं ग्लानितान्तं नितान्तम् ॥८०॥
सह आभासेन वर्तते या सा साभासा सप्रकाशा । नैर्मल्यवतीत्यर्थः । अन्धकारे त
रणे: सूर्यस्य तनुरिव साभासा यथा ग्लानितान्तं हृदयं मदयति तथा इयं मम भारती
अन्धकारेः अन्धकरिपोः श्रीशंभोः स्तुत्या नुत्या स्तुत्या स्तवनीया ग्लान्या भवमरु-
भ्रमणजया तान्तं क्लान्तं बुधानां सहृदयानां हृदयं मदयतु आनन्दयतु । सा केत्याह-
कान्तेति । कान्तारस्य दूरशून्यस्याध्वनो मध्ये सरिन्नदीव कान्ता अतिप्रिया या इयं
मम भारती सकुलपर्वतायां भूमौ विमलमतीनां धौताशयानां प्रेक्षणेन परीक्षणेन क्व
न कुत्र न तारतम्यमतिशयं याता ॥
 

 
वर्षावर्षायमाणा सहृदयशिखिनां संहितानां हितानां
 
दात्री दात्री तृणानामिव लवनपटुर्दुष्कृतानां कृतानाम् ।
कल्या कल्याणदाने नुतिरियमशुभं तर्जयन्ती जयन्ती
 
विश्वं विश्वंभरान्तं प्रसरतु सुरभीनन्दनस्यन्दनस्य ॥ ८१ ॥
सहृदया: सचेतना एव शिखिनो मयूरा तेषां वर्षासु वर्षतौं वर्षवदाचरतीति ता-
दृशी । तथा संहितानां राशीभूतानां हितानां दात्री वितरन्ती । कृतानां वाड्यनःक-
र्मभिर्विरचितानां दुष्कृतानां पापानां तृणानामिव लवने छेदने पटु । छेददक्षेत्यर्थः ।
तथा कल्याणदाने कैवल्यदाने कल्या कुशला । तथा अशुभं भवमरुभ्रमणोत्थं दुःखं त-
र्जयन्ती तिरस्कुर्वती । तथा विश्वं जगत् जयन्ती जगदीशैकाश्रयत्वात् । इयं सुरभीन-
न्दनस्यन्दनस्य वृषवाहनस्य श्रीशंभोनुतिः स्तुतिर्विश्वंभराया भूमेरन्तस्तं प्रदेशं प्रसरतु ।
भूमिवलयपर्यन्तं प्रसिद्धिं यात्वित्यर्थः । विश्वंभरान्तमिति 'कालभावाध्वदेशानाम्' इति
द्वितीया । नुतिः प्रसरतु । कियन्तं देशम् । विश्वंभरान्तमिति योजना । इति शिवम् ॥
श्रीराजानकशंकरकण्ठात्मजराजानकश्रीरत्नकण्ठविरचितया लघुपश्चिकया
समेतं काश्मीरकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य
स्तुतिकुसुमाअलौ महायमकस्तोत्रं त्रिंशम् ।
 
इति
 
एकत्रिंशं स्तोत्रम् ।
 
अथातो भक्तिप्रवजनानुपदेष्टुं नतोपदेशस्तोत्रमेकत्रिंशमारभमाण आह -
मनः समाधौ परमान्तरङ्गं विधाय निस्पन्दमनुत्तरङ्गम् ।
 
बुधा विधातुं भवभीतिभङ्गं विभुं भजध्वं गिरीजाभुजंगम् ॥ १ ॥
 
Digitized by Google