2023-02-23 21:28:05 by ambuda-bot
This page has not been fully proofread.
३० स्तोत्रम् ]
स्तुतिकुसुमाञ्जलिः ।
३८५
अतनुशं
रसं भक्तिरसं करवै करोमि । अर्थात्वय्येव स्वामिनि । त्वं मा मां कर्मभूतं
अतनुः कामस्तं श्यति तनूकरोतीत्यतनुशस्तादृशं कर कुर्वित्यर्थः । कर इति भौवादि-
कस्य कृञः·········मध्यमपुरुषैकवचने हिप्रत्यये प्रयोगश्छन्दसि । यथा 'तेभ्यो क
रनमः' इति । छान्दसोऽपि प्रयोगो भाषायामपि भक्तिविषये प्रयुक्तः । 'छान्दसा अपि
क्वचिद्भाषायां प्रयुज्यन्ते' इति वचनात् । कया हेतुभूतया । वैरसमायतया वैरेणान्तररि-
पुसद्भावजनितेन सह मायया वर्तते स समायः तस्य भावस्तत्ता तया । कीदृश्या । आय-
तया विस्तीर्णया ॥
प्रकाशकलितापदं शकलितापदं शंसता-
मसारसमये हितं रसमयेहितं शंकरम् ।
हृदि स्मरत रङ्गितं स्मरतरङ्गितं शान्ततां
नयन्तमसमानसंतमसमानसं चान्तकम् ॥ ७८ ॥
हे भक्तजनाः, यूयं शंकरं श्रीशंभुं स्मरत । किंभूतम् । प्रकाशकलितापदं प्रकाशः
प्रसिद्धो यः कलिस्तिष्ययुगं तस्य तापस्तं ददातीति तादृशस्तम् । तथा शंसतां स्तु.
वतां जनानां शकलिता खण्डिता आपद्येन स तादृशम् । तथा असारसमये अस्थिरे
समयेऽन्त्यक्षणे हितम् । रसमयममृतमयमीहितं चेष्टितं यस्य स तादृशस्तम् । पुनः किं
भूतम् । रङ्गिंतमुल्लसितम् । कस्मिन् । हृदि । चित्ते विहरन्तमित्यर्थः । पुनः किंभूतम् ।
स्मरतरङ्गितं मदनचापलं शान्ततां नयन्तम् । पुनः किंभूतम् । अन्तकं यमं च शान्ततां
नयन्तम् । अन्तकं कीदृशम् । असमानं संतमसं क्रोधरूपं मानसं यस्य स तादृशम् ॥
अथास्य स्तोत्रस्योपसंहारार्थ श्लोकत्रयं वक्ति -
इयं विचित्रताविराजिता मया मनोहरा
जिंतामया मनो हराहिता नुतिधिंनोतु ते ।
त्वयि प्रसन्नमानसेऽसमस्तमोहराशये
समस्तमोहराशये करोमि न स्पृहां पुनः ॥ ७९ ॥
विचित्रतया यमकालंकारवैचित्र्येण विराजिता शोभिता मया जगद्धराख्येण कविना
आहिता कृता नुतिः स्तुतिः हे स्वामिन् हर, ते तव मनो घिनोतु प्रीणयतु । किंभूता ।
जितामया जिता आमयाः संसारामया यया सा तादृशी । तथा मनोहरा मनोहारिणी ।
( तथा अजिता अपराभूता । न केनापि कविनेत्यर्थः ।) पुनः पक्षान्तरे । त्वयि प्रसन्न-
मानसे सति अहं त्वदाश्रितः समस्तमोहराशये सकलाज्ञानसमूहाय स्पृहां न करोमि ।
त्वयि कीदृशे । तमोहराशये तमोहरोऽज्ञानरूपान्धकारहर आशयो यस्य तादृशस्तस्मिन् ।
अहं किंभूतः । असमोऽनन्यसामान्यः ॥
१. 'हिता जितामया मनोहराहिता नुतिर्धिनोतु ते' इति क-पुस्तकपाठः
४९
Digitized by Google