This page has been fully proofread once and needs a second look.

३ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
२५
 
अङ्गं भुजंगेति । भुजंगैः शेषाहिमुख्यै रचिता कृता अदभक्तिःङ्ग्विः केयूरशोभा यस्मिन्

तादृशमङ्गं बाहंह्वंसकरूपम् । तथा त्वङ्गन्त उल्लसन्तस्तरङ्गा यस्याः सा । तादृशी गगना-

ङ्गनसकिङ्गिनी गङ्गा यस्य तत् । अङ्गं उत्तमाङ्गरूपम् । तथा विहितो रङ्गतो भ्रमतः अनङ्ग-

स्य कामस्य भङ्गो येन तादृशमङ्गं ललाटरूपम् । तत्स्थानस्थाग्निना कामस्य दाहात्। एवं-

भूतमङ्गं बिभ्रद्विभुः वो युष्माकमभङ्गुरमखण्डितमिङ्गितमभिलषितमङ्गीकरोतु । अवश्यं

वितरणेन पूरयत्वित्यर्थः । अत्रापि पूर्णमीप्सितं ददात्वित्यस्य स्थाने अभङ्गुरमितिङ्गितमङ्गी-

करोत्वित्युपचारेण वक्रोक्तिः ॥
 

 
यः कुण्डमण्डलकमण्डलुमन्त्रमुद्रा-

ध्यानार्चनस्तुतिजपाद्युपदेशयुक्त्या ।

भोगापवर्गदमनुग्रहमानतानां
 

व्यानञ्ज रञ्जयतु स त्रिजगद्गुरुरुर्वः ॥ ९ ॥
 

 
यः कुण्डेति । कुण्डमग्निकुण्डं च । मण्डलं यागमण्डलं च । कमण्डलुः कलशोपयो-

ग्यश्च । मन्त्रो निष्कलसकलात्मकश्च । मुद्रा आवाहनादिकाश्च । ध्यानं तदेकचित्तता

च । अर्चनं पूजा च । स्तुतिः स्तवराजपाठश्च । जपो मानसोपांशुविहितश्च । तदादी-

नामुपदेशयुक्त्या योजनयुक्तिस्तया आनतानां भक्तानां दृष्टिपातं विधाय । दैशिकमुखे

नेति शेषः । अनुग्रहं प्रसादं भोगापवर्गदं मुक्तिमुक्तिदं व्यानञ्ज प्रकटीचकार स त्रिजग

द्गुरुरुर्मद्देर्महेशो वो रञ्जयतु । यो विभुर्देदैशिकमुखेन कुण्डमण्डलाद्युपदेशयुक्त्या भक्तानामनुग्रहं

प्रकटीचकार स त्रिजगद्गुरुर्वो रञ्जयत्वित्यर्थः ॥

 
शंभोरदभ्रशरदभ्रतुषारशुभ्रं

भ्राजिष्णुभूतिभररभशीभैभ[^१]रभास्वराभम् ।

दिश्याद्वपुर्भसेस[^२]लनीलगलं कलङ्का-

लंकारशारदशशाङ्कनिभं शुभं वः ॥ १० ॥
 
•॥
 

 
शंभोरदभ्रेति । 'श्लक्ष्णं दभ्रं कृशं तनुः' इत्यमरः । न दभ्रं तनुः अदभ्रं घनं यत् श

रदभ्रं वर्षान्ते मेघः । स हि निस्तोयगर्भत्वात्सदा श्वेतो भवति । अम्बरादभ्रं च (?) तु-

षारं हिमं च तद्वत् शुभ्रम् । तथा भ्राजिष्णुः शोभमानो यो भूतिभरः भस्मसंघः तेन

शीभरा उच्छलन्ती । 'शीभृ कत्थने' भ्वादिः । भास्वरा आभा दीप्तिर्यस्य तत् । तथा

भसलो भ्रमरः । भंसते शोभते भसलः । 'भसलो देश्याम्' इति स्वामी । तद्वत् नीलो गलः

कण्ठो यस्य । कालकूटाख्यविषनिगरणात् । भसलनीलगलः । तथा कलङ्कः अलंकारो

भूषणं यस्य । पूर्णत्वात् । तादृशश्वासौ शारदशशाङ्कः शरदिन्दुः तन्निभं शंभोर्महेशस्य

वपुर्वो युष्मभ्यं शुभं श्रेयो दिश्यात् ददातु । अत्र शंभुवपुषः शारदेन्दुरुपमानम् । नील-

गलस्य तदङ्क उपमानम् । एतदपि प्राचीनादर्शेषु न दृश्यते ॥
 

 
[^
]. 'निर्भरभास्वराभम्' इति ख- पाठः
[^
]. 'भ्रमरनीलगलं' इति ख-पाठः.
 
Digitized by Google