This page has not been fully proofread.

३ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
२५
 
अङ्गं भुजंगेति । भुजंगैः शेषाहिमुख्यै रचिता कृता अदभक्तिः केयूरशोभा यस्मिन्
तादृशमङ्गं बाहंसकरूपम् । तथा लङ्गन्त उल्लसन्तस्तरङ्गा यस्याः सा । तादृशी गगना-
ङ्गनसकिनी गङ्गा यस्य तत् । अङ्गं उत्तमाङ्गरूपम् । तथा विहितो रङ्गतो भ्रमतः अनङ्ग-
स्य कामस्य भङ्गो येन तादृशमङ्गं ललाटरूपम् । तत्स्थानस्थाग्निना कामस्य दाहात्। एवं-
भूतमङ्गं बिभ्रद्विभुः वो युष्माकमभङ्गुरमखण्डितमिङ्गितमभिलषितमङ्गीकरोतु । अवश्यं
वितरणेन पूरयत्वित्यर्थः । अत्रापि पूर्णमीप्सितं ददात्वित्यस्य स्थाने अभङ्गुरमितिमङ्गी-
करोत्वित्युपचारेण वक्रोक्तिः ॥
 
यः कुण्डमण्डलकमण्डलुमन्त्रमुद्रा-
ध्यानार्चनस्तुतिजपाद्युपदेशयुक्त्या ।
भोगापवर्गदमनुग्रहमानतानां
 
व्यानञ्ज रञ्जयतु स त्रिजगद्गुरुर्वः ॥ ९ ॥
 
यः कुण्डेति । कुण्डमग्निकुण्डं च । मण्डलं यागमण्डलं च । कमण्डलुः कलशोपयो-
ग्यश्च । मन्त्रो निष्कलसकलात्मकश्च । मुद्रा आवाहनादिकाश्च । ध्यानं तदेकचित्तता
च । अर्चनं पूजा च । स्तुतिः स्तवराजपाठश्च । जपो मानसोपांशुविहितश्च । तदादी-
नामुपदेशयुक्त्या योजनयुक्तिस्तया आनतानां भक्तानां दृष्टिपातं विधाय । दैशिकमुखे
नेति शेषः । अनुग्रहं प्रसादं भोगापवर्गदं मुक्तिमुक्तिदं व्यानञ्ज प्रकटीचकार स त्रिजग
द्रुरुर्मद्देशो वो रञ्जयतु । यो विभुर्देशिकमुखेन कुण्डमण्डलायुपदेशयुक्त्या भक्तानामनुग्रहं
प्रकटीचकार स त्रिजगद्गुरुर्वो रजयत्वित्यर्थः ॥
शंभोरदभ्रशरदभ्रतुषारशुभ्रं
भ्राजिष्णुभूतिभरशीभैरभास्वराभम् ।
दिश्याद्वपुर्भसेलनीलगलं कलङ्का-
लंकारशारदशशाङ्कनिभं शुभं वः ॥ १० ॥
 
•॥
 
शंभोरदति । 'लक्ष्णं दभ्रं कृशं तनुः' इत्यमरः । न दभ्रं तनुः अदभ्रं घनं यत् श
रदभ्रं वर्षान्ते मेघः । स हि निस्तोयगर्भत्वात्सदा श्वेतो भवति । अम्बरादभ्रं च (?) तु-
षारं हिमं च तद्वत् शुभ्रम् । तथा भ्राजिष्णुः शोभमानो यो भूतिभरः भस्मसंघः तेन
शीभरा उच्छलन्ती । 'शीभृ कत्थने' भ्वादिः । भास्वरा आभा दीप्तिर्यस्य तत् । तथा
भसलो भ्रमरः । भंसते शोभते भसलः । 'भसलो देश्याम्' इति स्वामी । तद्वत् नीलो गलः
कण्ठो यस्य । कालकूटाख्यविषनिगरणात् । भसलनीलगलः । तथा कलङ्कः अलंकारो
भूषणं यस्य । पूर्णत्वात् । तादृशश्वासौ शारदशशाङ्कः शरदिन्दुः तन्निभं शंभोर्महेशस्य
वपुर्वो युष्मभ्यं शुभं श्रेयो दिश्यात् ददातु । अत्र शंभुवपुषः शारदेन्दुरुपमानम् । नील-
गलस्य तदङ्क उपमानम् । एतदपि प्राचीनादर्शेषु न दृश्यते ॥
 
१. 'निर्भरभास्वराभम्' इति ख- पाठः २. 'भ्रमरनीलगलं' इति ख-पाठः.
 
Digitized by Google